SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १७१ ॥ संतोषं स विशिष्य विस्मिष्मिये । निर्लोभता हि निर्दम्भा कस्य नाद्भुतकारणम् ॥ ५४७ ॥ शुद्धानि सन्मनांसीव ततः प्रमुदिताशयः । गुरवे ढौकयामास वासांसि प्रासुकानि सः ॥ ५४८ ॥ देयदायकयोः शुद्धिमवधार्य विशुद्धधीः । स्वीचकार | गुरुस्तानि तस्य पुण्यैः प्रणोदितः ॥ ५४९ ॥ प्रतिपन्नार्थनिर्वाहे तस्य द्रढयितुं मनः । निःसङ्गोऽप्ययमस्तोकमुपश्लोकयति स्म तम् ॥ ५५० ॥ मुनीनामपि मान्योऽसि यदा जन्म कुत्रर्त्मनि । आम्नातिनोऽपि ते चिसं धर्मतत्त्वे न्यलीयत ॥ ५५१ ॥ कल्पद्रुमिव दुष्प्रापं धर्मं पालयतस्तव । सुलभा एव भाविन्यो मर्त्या मर्त्यविभूतयः || ५५२ ॥ परं सम्यगमुं | धर्म स्वात्मानमिव पालयेः । प्राणान्तेऽपि न मुञ्चन्ति सन्तो हि स्वीकृतं व्रतम् ॥ ५५३ ॥ सम्यक् तं शिक्षयित्वेति व्यहागुरुरन्यतः । प्रकाशना मुनीशानां न ह्येकत्र रवेरिव ॥ ५५४ ॥ अथ पल्लीपतिः सम्यग्धर्मवर्मितधीः शुभाः । भावना | भावयामास पूर्वीहोहासलालसाः ॥ ५५५ ॥ प्राचीना ये दुराचारविवशा दिवसा ययुः । सपत्राकुर्वते ते मां कृतद्रोहा | इवाधुना ॥ ५५६ ॥ जज्ञे मानुष्य मुख्याऽद्य सामग्री मे फलेग्रहिः । पापिनाऽपि मया प्रापि धर्मः सम्यगयं यतः ॥ ५५७ ॥ अहो ! कारुण्य पुण्यत्व महो ! सत्यैकनिष्ठता । अहो ! प्रवृत्तिरस्तेये धर्मेऽस्मिन् किं न सुन्दरम् ॥ ५५८ ॥ एतस्यामपि यत्पल्यां श्रीगुरुः समवासरत् । मरुनीवृति तन्मन्ये मरुत्तरुरवातरत् ॥ ५५९ ॥ अहं निरयसुनायाः पार्श्व नीतोऽपि पाप्मभिः । अहो ! पशुरिव त्राणो गुरुणा करुणावता ॥ ५६० ॥ तपःप्रभानिभा तस्य कस्य नो विस्मयावहा । यया यान्ति सुपर्वाणः स्वर्वाण इव वल्गया ॥ ५३१ ॥ अहो ! त्रिभुवनस्यापि शस्या तस्य निरीहता । दीयमानमपि स्वर्ण | नाददे यो विदांवरः ॥ ५६२ ॥ मयि पापेऽप्यहो ! कापि कृपाऽनल्पीयसी गुरोः । मदाग्रहेण वासांसि निःसङ्गोऽयं यदा दशमः प्रकाशः । ॥ १७१ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy