________________
G
545
दानप्रदीपे
चच्छलत् ॥ ५०२॥ कृत्वाऽथ रूपमाभीर्या मूर्ध्नि तक्रघटं च सा । गृह्यतां तक्रमित्युच्चै?षमाघोषयन्मुहुः॥ ५०३ ॥
|द्वितीयः गतागतान्यतानीच्च पौनःपुन्येन तत्पुरः। तद्घोषस्खलितश्रौतध्यानस्तामभ्यधान्मुनिः ॥ ५०४॥ तक्रविक्रयणे वेला केयं
प्रकाश मुग्धे ! तवाधुना!। साऽप्यवादीदहो! कोऽयं कालस्ते कालिकश्रुते ॥५०५॥ अथो यतिरुपायुक्त नेयं स्त्री प्राकृती किल। मध्यरात्रं च निश्चित्य द्राग मिथ्यादुष्कृतं ददौ ॥५०६॥प्रत्यक्षा सा तमाचख्यौ मुने ! मैवंविधाः पुनः । छलयन्ति यतः क्षुद्रदेवाः साधुं प्रमद्वरम् ॥ ५०७ ॥ शिक्षयित्वेति तं दक्षा देवता सा तिरोदधे । यथाकालं श्रुताध्यायी || क्रमात्सोऽप्याप सद्गतिम् ॥ ५०८॥ अतः सुधीरधीयीत यथाकालं जिनागमम् । जायन्ते येन निर्विनमिह प्रेत्य च सम्पदः॥ ५०९॥ कालः॥
तथा गृह्णन् श्रुतं कुर्यान्निर्मायं विनयं गुरोः। प्रवर्धन्ते यतो विद्यास्तत एवोत्तरोत्तरम् ॥५१०॥ जायन्ते विनयादवे विनेयास्तनयास्तथा । सकलानां कलानां च सम्पदां च पदं स्फुटम् ॥५११॥ तिर्यञ्चोऽपि विनीता ये नानाश्चर्यकरीः कलाः । वीक्ष्य ताः शिक्षिता दक्षर्लभन्ते तेऽद्भुतां श्रियम् ॥ ५१२ ॥ प्रायः सर्वाणि कार्याणि विनयादेव देहिनाम् । सिध्यन्ति किं पुनर्विद्या लोकद्वयहितावहा॥५१३ ॥ विद्या स्वभ्यस्यमानाऽपि न फलेद्विनयं विना । पाल्यमानाऽपि धान्य|श्रीरनुकूलमिवानिलम् ॥५१४ ॥ गुरोरुच्चासनं पादशौचं संवाहनादि च । स्वस्य नीचासनाधं च विनयोऽनेकधा स्मृतः
॥३४॥ ॥५१५ ॥ अप्यैहलौकिकी विद्या गृहीता विनयादृते । भवेत्फलवती नैव किं पुनः पारलौकिकी ॥ ५१६ ॥ तथाहिपुरं राजगृहं नाम श्रेणिकस्तत्र भूपतिः। अन्येाश्चिलणादेवी तमवादीदलङ्घयवाक् ॥ ५१७ ॥ स्वामिन् ! मदर्थमा.
-
RANG
94