SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥४३॥ द्वितीयः प्रकाश। सर्वत्रापि परां पूजां नारदस्तु यथार्थया । व्याख्यया प्राप्नुवन् पाप क्रमेण परमां गतिम् ॥ ७९७ ॥ इत्थं मिथ्येतरार्थोक्तिफलमाकर्ण्य धीधनाः। न व्याख्येयं मृषा किश्चिजिनोक्तं तु विशेषतः॥ ७९८ ॥ अर्थः ॥७॥ बुधैरनन्यथाभूतं व्यञ्जनार्थोभयं तथा । श्रुतमध्येयमिष्टार्थसिद्धिश्चेदीप्स्यते ततः॥ ७९९ ॥ दोषास्तदुभयान्यत्वे पूर्वोक्ता एव साधिकाः । प्रत्येकं यद्भवेत्तद्धि द्वियोगे द्विगुणी भवेत् ॥ ८०० ॥ श्रुते तद्यमिथ्यात्वं प्रथयन् रोहगुप्तवत् ।। दुष्कीर्त्यादीनिहामोति परत्र कुगतिं पुनः ॥ ८०१॥ तथाहि- . | पुरीं स्वर्गाभिमानस्य भञ्जिकामन्तरञ्जिकाम् । भूपालः पालयामास बलश्रीरिति विश्रुतः॥ ८०२ ॥ तत्र भूतगुहोद्यानं | विद्यानां केलिमन्दिरम् । पुनन्ति स्म त्रिगुप्ताः श्रीगुप्ताचार्या जितेन्द्रियाः॥ ८०३ ॥ रोहगुप्ताभिधः ख्यातः शिष्यस्तेषामM दूष्यगी। शेमुषी यस्य सर्वेषु शास्त्रेष्वव्याहतकमा ॥ ८०४ ॥ वादे येन समं स्वस्य संभाव्येव पराभवम् । भयभ्रान्त तयाऽश्रान्तमयं भ्राम्यति गीष्पतिः॥ ८०५॥ गुरून् वन्दितुमासन्नग्रामस्थस्तां पुरीमयम् । प्रायेणान्वहमायासीदसीमा हि गुरौ रतिः॥ ८०६॥ परिवाद कोऽपि वादीन्द्रस्तत्रोन्निद्रधियां निधिः । अन्येधुराययौ गर्वाद्गणयंस्तृणवजगत् ॥ ८०७॥ पोट्टे स्फुटति विद्याभिरमान्तीभिरिदं मम । इत्यबध्नादयं पोट्टे पट्टमायसमायतम् ॥ ८०८ ॥ जम्बूद्वीपे समग्रे सामे न समः कोऽपि विद्यया । इति ज्ञापयितुं जम्बूशालां च स्वकरेऽकरोत् ॥ ८०९॥ ततोऽसौ पोदृशालेति सर्वत्र प्रथि तोऽभवत् । यो यथा चेष्टते प्रायस्तं तथा ब्रुवते जनाः ॥ ८१० ॥ पटहं वादयामास स तत्रान्तश्चतुष्पथम् । वादी| कोऽप्यस्ति यः साकं मया वादे प्रगल्भते ॥ ८११॥ रोहगुप्तस्तमाकर्ण्य पटहं प्रत्यषेधयत् । अहमेव प्रभूष्णुस्त्वं । जेतुं ROCRACAN पतिः व्याहतकमा मताचार्या जित
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy