SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विद्या गृहाव भोः सिंह इव द्विपम् ॥ ८१२ ॥ तच्चाऽऽगत्य गुरूनाख्यदयं तं गुरवोऽवदन् । न साधु विदधे वत्स ! विद्याभिः स बली यतः॥ ८१३ ॥ अलिव्यालाखुसारङ्गकोलकाकशकुन्तिकाः। विद्याभिः शतशोऽप्येष विकरोति भयङ्करीः ॥८१४॥ अथा-131 चख्यौ गुरु शिष्यः किं नंष्टुं शक्यतेऽधुना । ततोऽनन्यगतिः सूरिः सप्रसादमुवाद तम् ॥ ८१५॥ आदत्स्व वत्स ! दुर्वादिप्रयुक्तोपद्रवापहाः । पाठसिद्धा इमाः सप्त विद्या हृद्यार्थसाधिकाः ॥ ८१६ ॥ केकिबभ्रोतुशार्दूलसिंहोलूकशशादनाः। याभिः परतिरस्कृत्यैर्विक्रियन्ते पर शताः॥८१७॥ किञ्चित्सोऽन्यत्प्रयुङ्क्ते चेत् स्वमूर्ध्नि भ्रमयेस्तदा । रजोहृतिमिमां येन शक्रेणापि न जीयसे ॥८१८॥ रोहगुप्तस्ततो विद्या गृहीत्वा सरजोहृतीः । सरस्वतीव पुंरूपा नृपसंसदमासदत् ॥ ८१९॥ आचचक्षे च साक्षेपं तं प्रति प्रतिवादिनम् । कक्षीकुरुष्व भोः पूर्वपक्षं दक्ष ! निजेच्छया ॥ ८२०॥ पर्षदध्यक्षमेषा तु प्रतिज्ञा क्रियते मया । यत्किञ्चिद्भाषते वादी स्थापयामि तदन्यथा ॥ ८२१ ॥ इत्याक्षिप्तः परो वादी सद्यः शङ्काकुलोऽजनि । सम्यगज्ञातशास्त्राणां सर्वत्रापि सशकता॥ ८२२ ॥ पुण्यं प्रमाणनैपुण्यं वर्ण्यते जैनवादिषु ।। एषोऽपि स्वमतस्थायी विजेतुं दुःशको मया ॥ ८२३॥ जैनीभूयाहमेवातः पूर्वपक्षमुपाददे । यथाऽऽदितोऽप्ययं वादे व्याह-17 |तप्रतिभो भवेत् ॥ ८२४॥ इत्यामृश्याहतीभूय सोऽभ्यधत्त जगत्युभो। जीवाजीवाभिधौ राशी तदन्यानुपलम्भतः॥८२५॥ प्रत्यवोचत्ततो रोहगुप्तस्तं दृप्तमानसः । मातृशासित ! जानासि न सम्यग्मतमार्हतम् ॥ ८२६ ॥ जीवा अजीवा नो जीवा | राशित्रितयमस्ति नः । जीवास्तत्र सचैतन्या अजीवास्तद्विलक्षणाः ॥ ८२७ ॥ नो जीवास्तु धनुर्मुक्तबाणाद्याः किल | M सक्रियाः। चैतन्याभाववत्त्वेन नहि जीवा भवन्त्यमी ॥ ८२८ ॥ गत्यादिकक्रियायोगादजीवा अपि नैव ते । पारिशेष्या ८२१॥इल ASSAGAR जैनवा
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy