________________
॥ अथ दशमः प्रकाशः ॥
श्रीवीरः शर्म निर्मातु निर्ममोऽपि द्विजन्मने । दरिद्राय दयार्द्रात्मा देवदूष्यमदत्त यः ॥ १ ॥ अथ वस्त्रप्रदानाख्यो धर्मोपग्रहदानगः । प्रभेदः पुण्यमेदस्वी सप्तमः परिकीर्त्यते ॥ २ ॥ यथा कल्पमनल्पेन भावेन गृहमेधिना । वस्त्रं धर्मो पकारार्थम नगाराय दीयताम् ॥ ३ ॥ न च निर्ग्रन्थतावाधि तद्दानं नोचितं यतेः । तस्य संयमरक्षायै तदनुज्ञा यदागमे ॥ ४ ॥ यदुक्तमोघनिर्युक्तौ चतुर्दशपूर्विश्रीभद्रबाहुप्रणीतायाम् —
"पत्तं पत्ताबंधी पायडवणं च पायकेसरिआ । पडलाई रयत्ताणं गुच्छउ पायनिजोगो ॥ १ ॥”
" तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपत्ती । एसो दुवालसविहो उवही जिणकप्पिआणं तु ॥ २ ॥” "एए चैव दुवालसमत्तग अइरेगचोलपट्टो अ । एसो उ चउदसविहो उवही पुण थेरकपंमि ॥ ३ ॥” " जिणा बारसरुवाणि थेरा चउदस रूविणो । अजाणं पण्णवीसं तु अउ उ उवग्गहो ॥ ४ ॥” इति ॥ द्विधा धर्मो हि साधूनां सचेलाचेलभेदतः । द्वाविंशतेर्जिनेशानां सचेलः खलु शासने ॥ ५ ॥ मानवर्णाद्यनैयत्यं विशेषं ख्यापयेदिह । सहशब्दो यथा लोके सरूपोऽयमिति स्तुतौ ॥ ६ ॥ ऋजुप्राज्ञा यतो जीवाः समये मध्यमार्हताम् । यथाशुद्धं ततः सर्वे वसनं तेऽन्वमंसत ॥ ७ ॥ धर्मः पूर्वान्त्यतीर्थेशतीर्थे पुनरचेलकः । नञ्शब्दो नाभिधत्तेऽत्र सर्वथा चेलवर्जनम् ॥ ८ ॥ किन्त्वस्य वर्णमानादिनियमं गमयत्ययम् । विभात्यनुदरा कन्येत्यादिवाक्ये यथा जने ॥ ९ ॥ पूर्वे ऋजु| जडा जीवा जडवक्राश्च पश्चिमाः । तत्तीर्थे विहिता तेन वस्त्रादिषु नियन्त्रणा ॥ १० ॥ यदुक्तं केशिगौतमीयोत्तराध्ययने —