SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ नवमः प्रकाशः। दानप्रदीपे || त्यमत्यन्तमुपागते नः। अथ स्ववृत्तामृतपायनेन पिपासितं प्रीणय कर्णयुग्मम् ॥५४७ ॥ कुमारेऽथ स्ववृत्तोक्तिप्रस्तावे नमितानने । जनो जगाद तद्वृत्तमादितः सर्वमद्भुतम् ॥ ५४८॥ तदाकर्ण्य नृपः प्रीतविस्मितः सुतरां सुतम् । राज्ये ॥१५४॥ न्ययुक्त धर्म च समाराध्य दिवं ययौ ॥५४९ ॥ अथ सिंहलसिंहभूपतिः पितृसाम्राज्यमहार्यमाश्रितः । दीनादिषु दानमन्वहं तन्वानः स निदानवर्जितम् ॥ ५५० ॥ जिनमन्दिरसुन्दरान्तरां विदधानो वसुधामनारतम् । गृहिधर्ममनन्तशर्मणे चिरमारोधयति स्म शुद्धधीः ॥ ५५१ ॥ प्रपाल्य स श्रावकधर्ममेवं समीयिवांल्लान्तकदेवलोकम् । ततो विदेहेषु गमी स ४ मुक्तिं कर्माणि निर्मूल्य सुहृत्सुरश्च ॥ ५५२ ॥ एवं निशम्य मुनिभेषजदानपुण्यं पूर्वोक्तबन्धुयुगलाद्भुतऋद्धिहेतुम् । तत्रादरं | कुरुत भव्यजनाः! सनापि वृण्वन्ति येन निखिलाः सुखसंपदो वः॥ ५५३ ॥ ॥इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरि शिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रभैषज्यदानफलप्रकाशनो नवमः प्रकाशः ॥ ग्रं०॥५९४ ॥ ॥१५४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy