________________
दानप्रदीपे
तन्मुक्तान्यपरिष्वङ्गां वियोगार्ता पतिव्रताम् । मेलितुं मित्र! तां क्षिप्रं साम्प्रतं तव साम्प्रतम् ॥ २७६ ॥ अहं प्रतिष्ठमानो-1| दशमः
प्रकाश ऽस्मि स्मरणीयः सखे । त्वया । इत्युक्त्वा प्रस्थितः सार्थनाथः स्थानं निजं ययौ ॥ २७७ ॥ सचेताश्चिन्तयामास कुमारोऽथ स्वचेतसि । कृतज्ञानां हि मूर्धन्या धन्या पण्याङ्गनाऽपि सा ॥ २७८ ॥ आजन्म मय्यदृष्टेऽपि प्रतीते कितवेऽपि या। वहत्यकृत्रिमं प्रेम पत्याविव पतिव्रता ॥ २७९ ॥ भूपतिप्रभृतीन यूनोऽनुरक्ताञ् श्रीमतो द्विधा । स्वैरिण्यपि मयि । स्निग्धा गणयामास या तृणम् ॥ २८ ॥ मदीयविरहार्ता या कुलस्त्रीष्वपि दुर्लभम् । दधौ पतिव्रताधर्ममकुलीनाऽपि | दुष्करम् ॥ २८१ ॥ तदेषा नहि सामान्या मान्या नूनं मनस्विनाम् । विलोकयितुमेतां च गन्तुं मे तत्र युज्यते ॥२८॥ तत्रैवागममिच्छन्त्या नूनमन्यूनरक्तया । तया दक्षतया प्रैषि न प्रीतिप्राभृतं मम ॥ २८३ ॥ कन्यकुलपुरं किश्च दृष्ट | स्यादद्भुतास्पदम् । गुणाय किल धीराणां देशान्तरनिरीक्षणम् ॥ २८४ ॥ विमृश्येति मनस्वी स सपदि प्रस्थितस्ततः । | वसुधा विविधाश्चर्यबन्धुरामवधारयन् ॥ २८५ ॥ सतीमतल्लिकामेतां द्रष्टुमुत्कण्ठुलाशयः । कन्यकुब्जपुरः सीमामवाप स्वल्पवासरैः ॥ २८६ ॥ युग्मम् ॥ भुक्त्वा पुरे विशामीति नीतिज्ञश्चिन्तयन्नयम् । क्षणं तस्थौ वने कोऽपि नागरश्चागमत्तदा ॥ २८७ ॥ कर्मस्थायकृतस्तत्र सूत्रधारानवेश्य सः। किमेतदिति पप्रच्छ नागरं स्नेहसागरम् ॥ २८८ ॥ सोऽप्युवाच पुरेऽत्रास्ति नीतिसारो नरेश्वरः। यस्य नीतिप्रधानत्वादन्वर्था पप्रथेऽभिधा ॥ २८९ ॥ तेन निष्पाद्यमानाऽस्ति | वापीयं पुण्यकाम्यया । निजं पञ्चकुलं चात्र तच्चिन्तायै न्ययुङ्ग सः॥ २९ ॥ दत्ते स्म नव लक्षाणि स्थूललक्षः स
॥१६३॥ तद्विधौ । मेने येन हि यत्पात्रं स तस्मिन्नाहतो भवेत् ॥ २९१ ॥ पृथिवीखननं धूलीवहनं घटनाश्मनाम् । इत्यादीनि 81