________________
||प्रमाणं तस्य हि ज्ञानं यतते यः क्रियास्वपि ॥ ४५४ ॥ क्रमाद्विमलमाचार्यपदे गुरुरतिष्ठिपत् । योग्यं सून विनेयं वा नियन्ति गुरवः श्रियम् ॥ ४५५ ॥ धाराधरः पयोधारा इव पुण्याङ्कुरावहाः । अयं विस्तारयामास सर्वतः शुद्धदेशनाःाद
॥ ४५६॥ निरवद्या ददौ विद्या विनेयेभ्यः स सादरम् । कलाचार्यः क्षमापालकुमारेभ्यः कला इव ॥ ४५७ ॥ वाचनादिप्रदानादौ श्राम्यति स्म न जातु सः। रणकण्डूलदोर्दण्ड इव संग्रामकर्मणि ॥ ४५८ ॥ इति स ज्ञानमाराध्य साधितानशनः सुधीः । ईशानेन्द्रसमानर्द्धिरीशाने त्रिदशोऽजनि ॥ ४५९ ॥ ततो दिवश्च्युतः सोऽयं सुबुद्धिस्ते सुतोऽजनि । ज्ञानाराधनया चास्य शेमुषी सर्वतोमुखी ॥ ४६०॥ अपलः स तु दुष्कर्म मर्माविज्ञाननिन्दनम् । सृजन्नाजीवितं मृत्वा द्वितीयं निरयं ययौ ॥ ४६१ ॥ तस्मादुद्धृत्य सोऽयं ते दुर्बुद्धिस्तनयोऽजनि । ज्ञानाशातनपापेन जज्ञे चाज्ञेषु शेखरः । ॥ ४६२ ॥ इत्याकर्ण्य नृपामात्यसुबुद्धयाद्याः ससंमदाः । निर्भरं बिभरामासुानस्याराधने धियम् ॥ ४६३ ॥ जनकेन समं श्राद्धधर्म स्वीकृत्य कृत्यवित् । सुबुद्धिर्भूधवाद्याश्च गुरुं नत्वा गृहं ययुः ॥ ४६४ ॥ जैन मतं कुलं च स्वं सुबुद्धिरुदभासयत् । शुद्धाभिर्बुद्धिभियोम भानुमानिव भानुभिः ॥ ४६५ ॥ क्रमात्तपस्यामासाद्य ज्ञानं चाराध्य नैकधा। सुबुद्धिः शुद्धधीर्मृत्वा ब्रह्मलोके सुरोऽजनि ॥ ४६६ ॥ ततश्चयुत्वा पुनः प्राप्य मर्त्यतां स तपस्यया। निर्मूल्याशेषकर्माणि प्रपेदे परमं पदम् ॥ ४६७ ॥ दुर्बुद्धिस्तु मुनेस्तस्योपदेशसलिलैरपि । नैर्मल्यं नाप दुष्कर्मा मलिनस्निग्धचीरवत् ॥४६८॥ अहो ! एभिरिदं की परिकल्प्यैव जल्प्यते । इत्यादि प्रत्युत ज्ञानिनिन्दां तेने तदाऽप्ययम् ॥४६९॥ ततस्तदुद्भवापारपापप्राग्भारभारितः । असावनन्तसंसारं भ्रमिष्यत्यतिदुःखितः ॥ ४७० ॥ धनश्रेष्ठिन्ननेनापि त्वत्सुतेनान्यजन्मनि ।
ROUGUSAMACHAR