SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ परः ॥ २४ ॥ यत्र यत्र सवाणिज्ये रिक्थं न्यास्थत दुःस्थितः । तत्र तत्र त्रुटिस्तस्य हस्तन्यस्ताम्भसो यथा॥ २५ ॥ चौरादयोऽप्युपद्रोतुमाद्रियन्ते स्म तद्धनम् । सर्व प्रतीपतामेति प्रतिकूले हि कर्मणि ॥ २६॥ कालेनाल्पीयसाऽप्येष निःशेषमपि पैतृकम् । धनं निर्णाशयामास दवाग्निरिव काननम् ॥ २७॥ फाल्गुनोर्वीरुहामास तस्यावासः पुरातनः। यतो निःस्वतया तस्य नोपचक्रे कदाऽप्ययम् ॥ २८ ॥ श्रीणां धनपतेः पत्युदृष्टिदौष्टवपिष्टये । रराज कज्जलश्लेष इवैष प्रातिवेश्मिकः ॥ २९ ॥ दर्श दर्श तथावस्थौ विभाव्यते स्म तौ जनैः । स्फीते मूर्तिमती पुण्यपापे इव पुरातने ॥ ३०॥ तथा तमुपदुद्राव सदोन्निद्रा दरिद्रता । यथैहत स विक्रेतुं स्वं निकेतनमप्ययम् ॥ ३१॥ ततो धनपतिस्तस्य मूल्येन जगृहे गृहम् । शरण्यः पुण्यवानेव जायते सर्वसंपदाम् ॥ ३२॥ स तद्भुवि नवावासं प्राररम्भददम्भधीः । प्रवर्धते हि सौधादिसमृद्धिर्धनवृद्धितः॥ ३३ ॥ तन्निदेशाज्जनास्तत्र प्रवृत्ताः खनितुं मुदा । तस्य प्रौढां श्रियं गूढामिव प्रादुश्चिकीर्षवः ॥३४॥ खन्यमाने जनस्तत्र प्रादुरास महानिधिः। तस्य मूर्त इवागण्यपुण्यराशिः पुरातनः ॥ ३५॥ तस्य भोक्तुमिव प्राज्यं पुण्यभोज्यं पचेलिमम् । सौवर्णानि विशालानि तत्र स्थालानि रेजिरे ॥ ३६॥ पातुं तत्रत्यलोकानामिव तस्य * यशःसुधाम् । चारुकञ्चोलकश्रेणिस्तत्राराजत राजती ॥३७॥ तस्यावासमुपेतायाः कमलाया इवासितुम् । चकासामास सौवर्णमासनं तत्र भासुरम् ॥ ३८ ॥ पुण्यलक्ष्मी कनी तस्य नव्यां पाणौचिकीर्षतः । अलङ्कर्तुमिवाराजत्तत्रालङ्कारधोरणी 8 |॥ ३९ ॥ तस्य पूरयितुं कामान् कामकुम्भा इवामृताः। शातकुम्भमयाः कुम्भा बभुस्तत्र विभासुराः॥४०॥ जात्यरलोत्करस्तस्मिन्नाविरासीदसीमरुकू । श्रेष्ठः श्रेष्ठीशितुस्तस्य गुणौघ इव मूर्त्तिमान् ॥४१॥ तथाविधं निधिं दृष्ट्वा विस्मयो
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy