________________
दानप्रदीपे
षष्ठः प्रकाशः।
मयो ह्ययम् । तदस्य विश्वहृद्यस्य युक्ता सर्वाङ्गसौख्यता ॥ १०३ ॥ दुःखं तृषाबुभुक्षादिभवं यदनुभूयते । तत्कामयोगतो| यद्वदालोकाभावतस्तमः ॥ १०४॥ न चार्थे तद्वदेकान्तसुखसाधनता मता । आये व्यये च रक्ष्णे च तस्य दुःखाकरत्वतः ॥१०५॥ यतः____ “यदुर्गाटविसागरादिगमनं यन्नीचसंसेवनं यन्मातापितृसोदरादिहननं चौर्यादिदुष्कर्म यत् ।
जागर्यादि च यत्समग्ररजनीं यद्दीनवाक्यादिकं तद्वित्तस्य विशंस्थुलीकृतजगद् वित्तस्य दुश्चेष्टितम् ॥१॥" __ कामभोगोपयोगेन स्यादर्थोऽपि सुखाकरः । वणिजो मम्मणस्येवान्यथा दुःखाकरः पुनः ॥ १०६ ॥ धर्ममोक्षौ पुनर्धूर्तकल्पनाशिल्पिकल्पितौ । प्रत्यक्षगोचरातीतावसन्ती नहि तात्त्विकौ ॥ १०७ ॥ शुभाशुभे प्राक्तनपुण्यपापप्रयोगतः प्राणभृतां भवेताम् । अत्राप्यनैकान्तिकता दृषद्भिर्निर्हेतुका सार्चनघट्टनाभिः ॥ १०८॥ न यत्र रूपं न रसो न गन्धो न स्पर्शमात्रं न वचो न वर्णः। नेच्छा न बुद्धिर्न सुखं न दुःखं मोक्षः खपुष्पान्न विशिष्यतेऽसौ ॥ १०९॥ तात्त्विकत्वेऽपि तौ युक्तौ नैवादतु सचेतसाम् । सुखाभिलाषिणस्ते हि दुःखसाध्याविमौ पुनः ॥ ११० ॥ तथाहि- .
क्षान्ता दुर्गोपसर्गान् सततगुरुतपःशोषिताशेषगात्राः पात्रं भूयो मलानां नियमितकरणः सर्वहृद्यार्थसार्थे । सोढा प्रौढातपादिप्रभवमविरतं कष्टमुत्कृष्टधैर्यः कायोत्सर्गादिकार्ये प्रभवति विधिवद्धर्ममारा मीहक् ॥ १११॥ प्राप्तुं मोक्षमपीदृक्षः क्षमः स्यान्नापरः पुनः । परत्र सुखलाभस्तु प्रत्याय्यः कोशपानतः ॥ ११२ ॥ प्राप्तानपि च यः कामांस्त्यजत्यधिकलुब्धधीः । वानरस्येव दुर्वारोऽनुतापस्तस्य जायते ॥ ११३ ॥
॥८८॥