SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ %-CCCCESSACRECASS निजाम् ॥ ८५॥ साऽपि पल्यङ्कमादाय स्थिता प्रातश्चतुष्पथे । वक्रय क्रयिकैः पृष्टा द्रव्यलक्षमभाषत ॥८६॥ केऽप्याययुर्न तत्पार्श्व लक्षश्रुत्यैव भापिताः। कल्पपादपसामीप्यमाप्यते किमपुण्यकैः ॥ ८७ ॥ ततो मुग्धतया लोकः पल्य कोऽपि नाददे । अपरीक्षितृणां रत्नपरीक्षा खलु दुष्करा ॥ ८८॥ नार्हता वस्तुनस्तस्य वस्तुं यत्तद्गृहेऽथवा । यस्य तस्य करे युक्ता स्थितिश्चिन्तामणेः किमु ॥ ८९ ॥ दिनान्ते मन्त्रिणा पृष्टा स्पष्टमाचष्ट सा तथा । गुणे पृष्टे पुनः प्रोचे रात्री सुप्तैः स भोत्सते ॥ ९॥ दृष्ट्वा गुणं भवद्भ्योऽयं रोचते यदि मञ्चकः । तदा मूल्यमिदं दत्थ नो चेन्मञ्चकमेव मे॥९१॥15 |स्वीकृत्य यौक्तिकं तस्या वचः सचिवपुङ्गवः। उपायनमिवानिन्ये पल्यङ्कमुपभूपति ॥ ९२॥ ऊचे च देव! मञ्चोऽयं क्लुप्तस्ते नैव शिल्पिना । शयानैः पुनरेतस्य निशायां ज्ञायते गुणः॥९३ ॥ तदाकण्ये नृपः पुष्पादिभिरानश्च मञ्चकम् । कृतसान्ध्यसाविधेयश्च तत्राशेत सकौतुकः॥ ९४ ॥ सुप्तस्यापि सुखं तस्य तन्माहात्म्यदिदृक्षया। निद्रा नैति दरिद्रस्य यद्वदाजीवचि-13 न्तया ॥ ९५ ॥ अथ दिव्यानुभावेन पादाःपल्यवर्तिनः । चतुरा इव चत्वारो वार्तयन्तीतरेतरम्॥५६॥ तिष्ठामः किं मुनिः क्षीणकर्माण इव भो ! वयम् । प्रमीलादिप्रमादेन कालोऽत्येति ह्यधीमताम् ॥ ९७ ॥ चित्रकारिकथानृत्यसंगीतादिरसं विना । कोटियामा त्रियामाऽपि यामिनी भाविनी च नः॥ ९८॥ ततः कञ्चन साश्चर्य. प्रबन्धं रसबन्धुरम् । प्रस्तावयेम यामिन्याः सुखनिर्गमनक्षमम् ॥ ९९ ॥ नृपोऽपि दारवाः पादा वदन्तो दिव्यभाषया । कं प्रबन्धं वदन्तीति विस्मितो ऽवहितोऽभवत् ॥ १०॥ वावदक इवावादीत् पादस्तत्रैवमादिमः। श्रूयते किल शास्त्रेषु पुमर्थानां चतुष्टयी ॥१०१॥ काम एव परं तत्र प्राधान्यमवलम्बते । तस्मिन्नेव यदेकस्मिन्नेकान्तेन सुखाङ्गता ॥ १०२ ॥ उदारशब्दरूपादिपरिभोग ACANCER-CRECACALCALCANKA
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy