SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ४॥ १५६ ॥ प्रोचे ध्वनभुजङ्गेन तर्हि तत्र महीभुजे । मदीयमुपदीकार्यमिदं पट्टादिकं त्वया ॥ १५७ ॥ अहो! परोपकार कसारताऽस्य गरीयसी। दौःस्थ्येऽपीत्यथ सार्थेशः सविशेष विसिष्मिये ॥ १५८ ॥ त्वयाऽपि प्रतिपत्तव्यं वचनं मम |किश्चन । इत्युक्त्वा पट्टमादत्त प्रदातुं तत्र सार्थपः ॥ १५९ ॥ अनिच्छतेऽप्यतुच्छात्मा तस्मै कतिपयं धनम् । प्रसह्य चाप-1 यामास प्रीतिवड्याः फलं ह्यदः॥१६०॥ अथ सार्थपतिश्चित्ते सुस्थितः प्रस्थितः पुरः। हर्षात् संप्रेष्य तं सोऽपि पुरान्तःप्राप निर्भयः॥१६१॥ तत्र स्वं तेन वित्तेन स प्राप यदपर्णताम् । धारयन्ति न संपत्तौ ऋणं खलु मनीषिणः॥१६२ ॥ हर्षेण प्रेषते स्मैष जनन्याश्च धनं कियत् । त एव हि सुता मातुर्दोगत्येऽपि स्मरन्ति ये ॥१६३ ॥ स्थितस्तत्रैव स द्यूतं रममाणो|ऽन्तरान्तरा । निनाय समयं पुण्यविपाकं तु प्रतीक्षितुम् ॥ १६४ ॥ इतश्च प्रस्थितः सार्थपतिः कतिपयैर्दिनैः । अपाचीशः पुरी प्रापदरिमर्दनभूभुजः॥ १६५॥ आस्थानीमास्थितं पृथ्वीपतिं प्राभूतपूर्वकम् । स ननाम नृपोऽप्येनं यथार्ह सममानयत् ॥ १६६॥सच सारियुतं पट्ट भूभुजे तमढौकयत् । मूर्त ध्वजभुजङ्गस्य भक्तिरागमिवोज्वलम् ॥ १६७॥ ऊचे च देवपादानामुज्जयिन्यां निवासिना । प्रैषि ध्वजभुजङ्गेन कुमारेणोपदा मुदा ॥१६८॥ दर्श दर्श मणिस्वर्णमयं तं पट्टमहृतम् । भूपः सर्वेऽपि सभ्याश्च परमाश्चर्यमाययुः॥ १६९ ॥ अथासौ विस्मयोद्वेलपयोधिलहरीमिव । पर्षदध्यक्षमाचख्यौ हर्षतः मापतिर्गिरम् ॥ १७ ॥ अहो ! उत्तमता तस्य कस्य नो विस्मयावहा । यदेष प्रैषतेदृक्षं प्राभृतं मग्यवीक्षिते ॥ १७१॥ न स्वाजन्यं न संलापं न प्रेम न च दर्शनम् । अपेक्षन्ते महान्तोऽन्योपकारे वारिदा इव ॥ १७२ ॥ सतां या श्रूयते शास्त्रे सर्वत्राप्युपकारिता । सत्यां प्रत्याययामास तामद्य स महाशयः॥ १७३ ॥ तस्याकृत्रिममैव्यस्य पूर्वमित्युप
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy