________________
दानप्रदीपे
॥१६०॥
1
चषः । सर्वसाम्राज्यदानेऽपि नाहमानृण्यमनुवे ॥ १७४ ॥ तथाऽपि तत्कृते चित्तहृत्तये मत्तदन्तिनाम् । शतानि पञ्च सार्थेश ! त्वत्सार्थे प्रेषितास्म्यहम् ॥ १७५ ॥ तदमी दन्तिनो नेया भवता प्रतिगच्छता । इत्युक्त्वा सत्कृतं भूपः सुस्थाने तमतिष्ठित् ॥ १७६ ॥ कालं कियन्तं तत्राथ क्रयविक्रयिकामयम् । सुखं चक्रे महीशक्रप्रसत्तिप्राप्तविक्रमः ॥ १७७ ॥ | सार्थपः सोऽथ सिद्धार्थः प्रज्ञाप्य पृथिवीपतिम् । दन्तीन्द्रांस्तानुपादाय व्यावर्त्तत गृहं प्रति ॥ १७८ ॥ अहो ध्वजभुजङ्गस्य भाग्यवैभवमद्भुतम् । हस्तिपश्ञ्चशतीं यस्मै हर्षतः प्रेषते नृपः ॥ १७९ ॥ अहो ! परोपकारः कोऽध्यपूर्वः कल्पपादपः । फलं फलति तत्कालं योऽचिन्तितमपीदृशम् ॥ १८० ॥ इति चित्रीथितस्वान्तः स्मरस्तं मित्रमन्वहम् । दिनैः कतिपयैः प्राप पुरीमुज्जयिनीमसौ ॥ १८१ ॥ जनादाकर्ण्य सार्थेशमागच्छन्तमतुच्छधीः । जगाम संमुखं सोऽपि कुमारः स्फारसंमदः ॥ १८२ ॥ तावुभावपि दूरेऽपि परस्परनिरीक्षणे । पितापुत्राविव प्रीत्योल्लासमासेदतुस्तमाम् ॥ १८३ ॥ प्रमोदेन तदाऽन्योन्यगाढालिङ्गनसङ्गतौ । अविन्दतां न तौ भेदं देहयोर्मनसोरिव ॥ १८४ ॥ क्षेमपृच्छादिरालापः प्रावर्तत मिथस्तयोः । | सन्तो विधातुमौचित्यं सर्वत्रावहिता यतः ॥ १८५ ॥ अथ स्वं सार्थमावास्य सरसस्तस्य पार्श्वतः । केणिकायां समाकार्य सार्थे शस्तमचीकथत् ॥ ९८६ ॥ तं सोपकरणं पट्टे प्राभृतं प्रहितं त्वया । दक्षिणापथनाथाय ढौकयामासिवानहम् ॥ १८७॥ ततस्तेन गरीयांसं प्रसादमुपसेदुषा । हस्तिपञ्चशतीयं ते प्राहीयत महीयसा ॥ १८८ ॥ महानुभाग ! भाग्यानि तवाभङ्गानि जाग्रति । प्रजिघाय यतस्तुभ्यं भूपः पञ्चशत द्विपान् ॥ १८९ ॥ प्रायः सर्वे परे धर्माः फलन्ति हि भवान्तरे । फलं परोपकारस्तु सद्यो दद्यादिहाऽप्यहो ? ॥ १९० ॥ युक्तं ते संपदः सद्यः संपद्यन्ते स्वयंवराः । यत्तवेद्दशदौर्गत्येऽप्युपकार
दशमः प्रकाशः ।
॥१६०॥