SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ 9A%%% 4545455555453 परा मतिः॥ १९१॥ प्राणत्यागो व्रतस्येव शीर्यस्येव महाहवः। कषपट्टः परीक्षायामुपकारस्य दुःस्थता ॥ १९२॥ एभिः। शभैरिभ राज्यमर्जितं भुज्यतां त्वया । यतः साम्राज्यसंपत्त्यै प्रभुरेकोऽप्यनेकपः ॥ १९३ ॥ अथ पञ्चशतीहस्तिप्राप्तिप्रमु|दिताशयः। कुमारः प्रेमविस्तारतारमेवमुवाच तम् ॥ १९४ ॥ अहो ! उदारता तस्य दृश्यतां काऽपि भूपते। पट्टमात्रात् प्रतिप्रैषीदियतो यो द्विपान् मम ॥ १९५॥ उदारचित्ता हि कृतोपकारादाधिक्यतः प्रत्युपकुर्वतेऽन्यम् । महाद्रुमाः पश्य ततो यतोऽपि यच्छन्त्यतुच्छानि फलानि पुंसाम् ॥ १९६ ॥ किञ्च संपदियं यन्मे महिमा स तु तावकः । अम्भोजस्य हि या शोभा स प्रभाव प्रभापतेः॥१९७ ॥ महीभुजा गजानेतांस्तेन प्रेरणा प्रहिण्वता । कथङ्कारं दुरन्तां ही निन्येऽx ४ हमधमर्णताम् ॥ १९८॥ न च प्रत्युपकारेण राज्ञस्तस्य दवीयसः । आत्मानमनृणीकर्तुमलङ्कर्मीणता मम ॥ १९९॥ प्रतिप्रेषयितं तस्मै शक्तिर्नापि द्विपान्मम । स्वयं च स्थापनेऽमीषां यावज्जीवमृणं भवेत् ॥२०॥ तदेतैरपि मे युक्ता कर्तु कस्याप्युपक्रिया । सारं तदेव सारं हि येनोपक्रियते परः॥२०१॥ सालः फलेन जलदः सलिलेन शुक्तिर्मुक्काफ-18 लेन धरणी कणधोरणीभिः। निश्चेतना यदि परोपकृतौ प्रसक्ता मत्येस्त दा न कथमस्तु सचेतनो यः॥२०२॥ एवं विचार्य चेतस्वी कुमारः माह भामहम् । अतः परं पुनः कुत्र प्रस्थातुं त्वमुपस्थितः॥२०३ ॥ कन्यकुजपुरे गन्तास्मीति प्रत्याह भामहः । तदुच्यतां पुरे तत्र कः प्रधानं विशेषतः॥२०४॥ इति तेन पुनः पृष्टः स्पष्टमाचष्ट सार्थपः । महेभ्याः सन्ति भूयांसस्तत्र श्रीदसमश्रियः ॥ २०५॥ परं निरुपमागण्यलावण्यरसवाहिनी । अस्ति पण्याङ्गना देवदत्ता या भूषणं |पुरः॥ २०६॥ देवैनमियं देवी दीयते स्म मुदे नृणाम् । इतीव सान्वयं नाम यस्या गायन्ति नागराः॥२०७॥ सर्वा ARREARCANESS
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy