SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ॥ ४६२ ॥ अथ संतोष्य पीयूषवृषा धर्माशिषा नृपम् । गुरुः कृतशुभारम्भां प्रारेभे धर्मदेशनाम् ॥ ४६३ ॥ तथाहि गतसारेऽत्र संसारे चिन्तामणिरिवाङ्गिनाम् । मानुष्यप्रमुखा धर्मसामग्री खलु दुर्लभा ॥ ४६४ ॥ एकैकस्मिन क्षणे सप्तदशकृत्वः श्रिता मृतिम् । निगोदेषु नयन्तेऽसुमन्तोऽनन्तमनेहसम् ॥ ४६५॥ तिष्ठन्ति ते तदुद्वत्ताः क्षितितोयाग्निवायुषु । प्रत्येकमप्यसंख्याता उत्सर्पिण्यवसर्पिणीः॥ ४६६ ॥ ततो निर्गत्य ते बोधिविकला विकलाक्षताम् । प्राप्तास्तिठन्ति संख्याता वर्षलक्षाः सुदुःखिताः॥४६७ ॥ ततः पञ्चाक्षतिर्यक्षु जलस्थलखचारिषु । ते पापपटवः पूर्वकोटी स्तिठन्ति कष्टतः॥४६८ ॥ ततः श्वनेषु ते प्राप्ताः पापप्राग्भारभारिताः। कालं नयन्त्यसंख्यातं सुखांशेनाप्यवीक्षिताः ॥४६९ ॥ ततो गिरिसरिद्रावन्यायाल्लब्ध्वाऽपि मर्त्यताम् । अनार्यत्वेन नो केचिद्धर्मनामापि जानते ॥४७॥ केचित्तथा|ऽऽर्यदेशेऽपि जाता म्लेच्छादिजातिषु । विचेष्टन्ते यथाऽनन्तं दुःखायन्ते भवे पुनः॥४७१ ॥ मिथ्यात्ववासिताः केऽपि शभां जाति श्रिता अपि । सद्धर्म न प्रपद्यन्ते मद्यपीता इव स्थितिम् ॥ ४७२ ॥ जाताः श्राद्धकुले केऽपि गताक्षत्वादिदूषिताः। न शक्ता धर्ममारार्द्ध दातुं तद्धनवद्धनम् ॥ ४७३ ॥ सर्वाक्षपाटवेऽप्यन्ये रोगाविष्टवपुष्टमाः । धर्मकर्मसु नालं स्युर्व्यवसायेष्विवालसाः॥४७४ ॥ अनामयाविनोऽप्यन्ये नरास्तनुतरायुषः। निर्वोढुं पुण्यमप्रौढागार्हस्थ्यमिव दःस्थिताः ॥४७५॥ दीर्घायुषोऽपि केऽप्युग्रमोहनहिलिताशयाः । शुश्रूषन्तेऽपि नो धर्म मुमूर्षव इवौषधम् ॥ ४७६ ॥ केऽपि प्रसह्य वार्यन्ते धर्म शुश्रूषवोऽपि ही। आलस्याद्यैर्यथा द्वाःस्थैः पृथ्वीनाथं दिदृक्षवः॥४७७॥ शृण्वतोऽप्यवगृह्णन्ति केऽपि तं नाल्पमेधसः । सम्यक् सौवर्णवाणिज्यं यथा लावणतैलिकाः॥४७८ ॥ केचिन्निचितकर्माणो जानन्तोऽपि AXAXSXXAAN** दा०२९ %**%
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy