SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सम्यगेवाभूत्तदेतदखिलं खलु ॥ ३२६ ॥ वीक्षेऽहमपि तत्साक्षाजातिस्मरणतोऽधुना । अहो ! भगवतां ज्ञानं सीमानं नावलम्बते ॥ ३२७ ॥ इत्युदित्वा मुदा तेषां सन्निधौ धौतधीरयम् । द्वादशव्रतविस्तीर्ण श्राद्धधर्ममुपाददे ॥ ३२८ ॥ मुनी-1 श्वरेभ्यो दानीयं शयनीयं मयाऽनिशम् । इत्यभिग्रहमत्युग्रं रङ्गेण जगृहे च सः॥ ३२९ ॥ प्रबन्धं बन्धुरं तस्य गुरूक्तं श्रुतपूर्विणः । शय्यादानादहो ! पुण्यमिति जातशुभाशयः॥ ३३० ॥ राजादयो गुरून्नत्वा प्रापुः पद्माकरोऽपि च । स्वं स्वं वेश्म जिनोपज्ञपुण्यनैपुण्यशालिनः॥३३१॥ युग्यम् ॥ उद्द्योतयन् जिनमतं सुकृतैरमात्रैः पात्रेऽनवद्यशयनादिकदाननिष्णः। पद्माकरश्चिरमयं गृहमेधिधर्ममाराध्य शुद्धविधिना दिवमाससाद ॥ ३३२ ॥ एवं भवाष्टकमयं शयनीदानकल्पद्रुमोपनतमद्भुतभोगजातम् । भुक्त्वा सुपर्वमनुजेषु विशेषदर्शी सिद्धिं ययौ विशदसंयमयोगमाप्य ॥ ३३३ ॥ पद्माकरो-18 दाहरणादगण्यं पुण्यं मुनीनां शयनीयदाने । निशम्य सम्यग् विधिना यतध्वं सुधीजनास्तत्र पवित्र भावाः ॥ ३३४ ॥ ॥ इति श्रीतपागच्छनायकश्रीजगच्चन्द्रसूरिसन्ताने श्रीदेवसुन्दरसूरिपट्टालङ्करणश्रीसोमसुन्दरसूरिशिष्यश्रीमहोपाध्यायश्रीचारित्ररत्नगणिविरचिते दानाङ्के श्रीदानप्रदीपनाम्नि ग्रन्थे पात्रशयनदानफल प्रकाशनः पञ्चमः प्रकाशः॥ ग्रन्थानम् ३४१॥ श्रीरस्तु ॥ दा०१५ १ "पुण्यमिति तत्र कृतादरः ।" इत्यपि पाठः ।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy