SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ -40 दानप्रदीपे पञ्चमः प्रकाशा ॥८४॥ हर्षोत्कर्ष निरीक्ष्यास्य वस्तुनोश्चैपणीयताम् । द्वयमप्यग्रहीषातामनुग्रहपरी मुनी ॥ ३१३ ॥ ततस्तद्वयमादाय गुरोरन्तिकमागतौ । ईर्यापथं प्रतिक्रम्य दर्शयामासतुर्यती ॥ ३१४ ॥ संस्तरस्तत्र शय्यायां कम्बलेन प्रतन्यते । विश्रान्त्यैः सरिराजानामहो ! श्रेष्ठी हि भाग्यवान् ॥ ३१५ ॥ स्वाध्यायदेशनाध्यानवाचनाध्यापनादिना । श्रान्ताः श्रीगुरवस्तत्र श्रुतनीत्या विशश्रमुः ॥ ३१६ ॥ श्रेष्ठी विश्राम्यतस्तत्र दर्श दर्श गुरुत्तमान् । अन्वमूमुददात्मानं धन्योऽहमिति सन्ततम् ॥ ३१७ ॥ तस्योत्तरगयामास कौमुदीवानुमोदना । सर्वदा विशदा शय्यादानपुण्यमहार्णवम् ॥ ३१८ ॥ तस्यागण्यस्य पुण्यस्य प्रभावेन स नन्दनः । दिवि स्वर्गाङ्गनाभोगसुभगंभावुकोऽभवत् ॥ ३१९ ॥ अभङ्गानद्भुताभोगान् स्वभॊगाननुभूय सः। अयं पद्माकरो दिव्यशर्मणामाकरोऽभवत् ॥ ३२० ॥ अक्षयेनेव निधिना तेन पुण्येन नोदितः। जनकस्तिलकः श्रेष्ठी दिविष्ठः स्नेहनिष्ठधीः ॥ ३२१॥ यथेच्छं विविधाः स्वर्णसद्माद्यद्भुतसंपदः । दिव्यशक्त्याऽपिपर्त्यस्य गोभद्रः शालिभद्रवत् ॥ ३२२॥ युग्मम् ॥ यतः "प्रत्यूहं हरति छिनत्ति विपदः पुष्णाति लक्ष्मीमघं मुष्णाति प्रतनोति राज्यकमलां दत्ते प्रतिष्ठोदयम् । सौख्यं पुष्पति किङ्करानिव सुरान् निर्माति सीमातिगं प्राचीनं सुकृतं हितं सुकृतिनां किं किं न तन्तन्यते ॥१॥" इत्यूचानावनूचानैरानीय श्रुतिगोचरम् । निजी पूर्वभवौ पद्माकरः कर्णसुखाकरौ ॥ ३२३ ॥ शय्याजन्यमहो! पुण्य- मिति जातशुभाशयः । प्राक्तनी जातिमस्मार्षीदूहापोहपरायणः॥ ३२४ ॥ युग्मम् ॥ ततः प्रमोदमेदस्वी प्रणम्य श्रीगुरूत्तमान् । जगाद कुङ्मलीकृत्य करी विनयवानयम् ॥ ३२५॥ प्रभो ! भवद्भिरावेदि यन्मे पूर्वभवादिकम् । भगवन् । ८४॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy