________________
पात्रयोः । सम्यग्धर्म समाराध्य पितरौ प्रापतुर्दिवम् ॥ २७१ ॥ अथ भद्रः समुन्निद्रभद्रः संभूय बन्धुभिः । कृतपैतृककर्तव्यो न्यवेश्यत पितुः पदे ॥ २७२ ॥ धर्मनिस्तन्द्रधीर्भद्रश्चन्द्रोज्वलयशास्ततः । पैतृक धुरमुदधे सर्वौचित्यविचक्षणः ॥ २७३ ॥ सर्वत्राकृत्रिमप्रेमा बह्वमन्यत सोऽनुजम् । सोदर्याणामजर्यं हि तथैव प्रथते मिथः ॥ २७४ ॥ निर्ममावनुजन्माऽपि निर्णितां भक्तिमग्रजे । जनके यादृशी भक्तिस्तादृक्कार्याऽग्रजेऽपि यत् ॥ २७५ ॥ इतीतरेतरं वित्त वित्तयोरविभेदतः । कियानपि व्यतीयाय शंमयः समयस्तयोः ॥ २७६ ॥ अनयोः परमन्योन्यमसूयामासतुः स्त्रियौ । ईर्ष्यारोषादयो दोषाः सुलभाः खलु योषिताम् ॥ २७७ ॥ ऋतेऽपि ते निमित्तं च चक्रतुः कलहायितम् । कलावुत्तरलायन्ते महिला हि स्वभावतः ॥ २७८ ॥ वार्यमाणोऽपि नापैति पतिभ्यां कलहस्तयोः । प्रसर्पन्नापगापूरः केन रोद्धुं हि पार्यते ॥ २७९ ॥ | दयितावचनैः प्रीतिरहीयत तयोरपि । दुग्धं काञ्जिकयोगेन विकारं भजते न किम् ॥ २८० ॥ सञ्चक्राम क्रमाद्रामाकलहः प्रेयसोरपि । लगति प्रति गेहे हि समीपस्थं प्रदीपनम् ॥ २८९ ॥ स्त्रियो मूलमनर्थानामिति मिथ्या कथं प्रथा । कलिर्यतः कुलीनानामपि स्यात्तत्प्रयोगतः ॥ २८२ ॥ उन्मीलत्कलिवल्लिफुल्लनकृते या मेघमालायते या दत्ते गलहस्तमस्तकरुणं मातापितृप्रेमणि । बन्धुप्रीतिलतावितानभिदि या निस्त्रिंशधारायते तस्या युक्तमशेषदोषसजुषो वामेति नामोच्यते ॥ २८३ ॥ ततस्तौ स्वयमालोच्य विभज्य विभवं निजम् । लक्षं लक्षमुपादाय बिभिदाते सहोदरौ ॥ २८४ ॥ तस्माद्भिनस्य भद्रस्यावर्द्धन्त बहुधा श्रियः । तिग्मभानोर्विभिन्नस्य कला इव कलावतः ॥ २८५ ॥ लाभ एवाभवत्तस्य सर्वत्र व्यवसायतः । समग्रं हि समीचीनं संमुखीने स्वकर्मणि ॥ २८६ ॥ न्यायोपात्तं निजं वित्तं कुरुते स्म स पात्रसात् । न्यासी
1