SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१०८॥ सप्तमः प्रकाश । प्रत्युताऽभाग्यता दिने दिने तदाऽस्तं प्रयाते हि रकुरा नैव्यमस्य । कुर्वन्नु सुस्थानलाभाल्लाभाभिलाषुकः ॥२८७॥ तस्योत्तरोन्नतिप्राप्तपुण्यपर्जन्ययोगतः। प्रावृषेण्यस्रवन्तीव लक्ष्मीः स्फातिमुपेयुषी ॥ २८८ ॥ प्रवृद्धे च धनेऽधत्त प्रतिष्ठाऽस्य पटिष्ठताम् । दीपेऽधिकं प्रदीप्ते हि प्रकाशो हि प्रवर्धते ॥ २८९ ॥ द्वितीयस्य पुनर्लक्ष्मीः क्षीयते स्म क्षणे क्षणे । पीयूषांशोरिव ज्योत्स्ना कृष्णपक्षमुपेयुषः ॥२९० ॥ वाणिज्यादौ मुदा तेन न्यासि लाभाशया धनम् । प्रत्युताऽभाग्यतो हस्तन्यस्ततोयमिवात्रुटत् ॥ २९१॥ वह्निस्तेनाम्बुभूपाद्यास्तद्रव्यमुपदुद्रुवुः । पराङ्मुखमशेष हि प्रतिकूले विधातरि ॥ २९२ ॥ दिने दिने तदीयेऽतिहीयमाना क्रमाद्रमा । बभूवोत्कर्षगग्रीष्मसरसीव क्रशीयशी ॥ २९३ ॥ प्रहीणे द्रविणे तस्य हीयन्ते स्म गुणा अपि । तपनेऽस्तं प्रयाते हि स्फरन्ति किरणाः किमु | ॥ २९४ ॥ महत्त्वं चास्य तद्रंशे भ्रश्यते स्म समन्ततः । प्रदीपे खलु निर्वाणे प्रकाशोऽप्यपसर्पति ॥ २९५ ॥ नैःस्व्यमस्य | सुखोन्मेषसर्वकषमभूत्तथा । यथाऽजायत संशीतिरशनादिविधावपि ॥ २९६ ॥ दौःस्थ्येन दु:स्थितः प्राच्यां तादृशी|मृद्धिमद्भुताम् । स्मारं स्मारं स खेदाम्बुनिधिमग्न इवाऽभवत् ॥ २९७ ॥ भ्रातृसंपत्प्रकर्षश्च तस्याऽस्वस्यातिदुःखदः। तृषार्तस्याध्वनीनस्य ग्रीष्मातप इवाभवत् ॥ २९८ ॥ कुतोऽप्यनाप्नुवन् द्रव्यं हृदि निर्वेदमेदुरः। दध्यौ विध्यातधीधातुरीामुन्मेषयन्नयम् ॥ २९९ ॥ सर्वदाऽपि व्ययेऽप्यस्य वित्तं कृपवदव्ययम् । व्ययाभावेऽपि मेऽत्रुट्यदटवीस्थतटाकवत् ॥ ३०॥ तन्मां प्रतार्य मात्सर्याद्धनं मायाविनाऽमुना । स्थाप्यते स्म तिरोधाय किमकृत्यं हि मायिनः ॥ ३०१॥ इति ध्यात्वा समं भ्रात्रा कलहं स प्रचक्रमे । जडस्य हि द्वयस्यापि निम्नमार्गानुगामिता ॥ ३०२॥ ततो भद्रः सुभद्रात्मा सान्द्रानन्दमुवाद तम् । भ्रातः! किमयमारेभे संरम्भेण कलिस्त्वया॥३०३॥ कलिः सकलकल्याणवल्लीजालदवानलः। परैरपि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy