SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे दत्तवान् ॥ ६६५॥ परवित्तमदत्तं यो नादत्ते चित्तशुद्धितः। तं स्वयं वृण्वते सद्यः संपदः सर्वतोऽद्भुताः॥६६६॥ अष्टमः लक्षाः पञ्च सुवर्णस्य रत्तैस्तैः सोऽपि विक्रिये । दानभोगवणिज्यादौ यथायुक्ति न्ययुक्त च ॥ ६६७ ॥ अथ वाणिज्यमन्ये- प्रकाशः। ॥१३३॥ धुश्चिकीर्षः स विशेषतः। दिवसादिवसौ स्वस्य सम्यग् विज्ञातुमैहत ॥६६८॥ भोजनेऽल्पतमे स्वल्पमजीर्ण जायते यथा। यथा स्तोकं प्रपाते वा स्तोकैवाङ्गस्य वेदना ॥ ६६९ ॥ तथा क्रयाणके स्तोके हानिः स्तोकैव जायते । एवं विवेकवानेका M क्रीणाति स्म स बर्करीम् ॥ ६७० ॥ सा वने चरितुं मुक्ता समचारीदितस्ततः । प्राच्यं गवेषयन्तीव तदीयं कर्म वैभवम् । ॥ ६७१ ॥ आद्य एव दिने साऽजा वृकेणोग्रेण जग्रसे । एवं द्विस्त्रिः कृते तेन तथैवाभवदन्वहम् ॥ ६७२ ॥ ततः स्वस्यादिनं ज्ञात्वा नापणायद्विशिष्य सः । निश्चित्यावसरं कृत्ये यतन्ते हि विपश्चितः ॥ ६७३ ॥ कियत्यपि गते काले पुनः क्रीत्वा छगी बने । चरणाय मुमोचायं साऽपि प्रासूत तद्दिने ॥ ६७४ ॥ एवं यां यां स जग्राह सा सा प्रासूत सत्वरम् । दिनैश्चाल्पैरनल्पीयस्तस्याजकमजायत ॥ ६७५ ॥ मत्वेति दिवसं स्वस्य दिन एवादिमेऽग्रहीत् । पञ्चलक्ष्या सुवर्णेन पण्यं लादेशान्तरागतम् ॥ ६७६ ॥ दिनेऽथ सप्तमे तत्र परद्वीपादवापुषे । सांयात्रिकाय तत्पण्यं सर्वमर्पयति स्म सः॥ ६७७ ॥स | तद्विगुणलाभेन दशलक्षाधिपोऽजनि । स्वकर्मण्यनुलोमे हि संपदो न दुरासदः॥ ६७८ ॥ इति सन्ततवाहिन्या सारण्येव । वणिज्यया । आरामश्रीरिवाश्रान्तं तस्य ऋद्धिरवर्धत ॥ ६७९ ॥ क्रमेण जज्ञिरे तस्य द्वादश स्वर्णकोटयः । पुण्यप्रणीत- ॥१३३॥ साहाय्यं वाणिज्यं हि सुरद्रुमः॥ ६८०॥ धनदत्तोऽन्यदा सिद्धदत्तश्च क्वाप्यपश्यताम् । कुर्वाणो कलहं मार्गे नृपसामन्तयोः सुतौ ॥ ६८१ कलेर्दवानलस्येव न युक्ता स्थितिरन्तिके । इतिबुद्ध्या धनोऽमेध्याविव तौ दूरमत्यगात् ॥ ६८२ ॥ SARAKHRISSASSASSASAR
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy