SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ उच्छल्य कलिरेतौ वा विलगिष्यन्ति नः किमु । इत्युद्धतधिया सिद्धस्तयोः पार्श्वमुपागमत् ॥ ६८३ ॥ ताभ्यां च प्रतिभूश्चक्रे स एव स्वनयानये । इमौ विवदमानौ च नृपोपान्तमुपैयतुः॥ ६८४ ॥ ज्ञापयन्तौ निजं न्यायमन्यस्यान्यायमेव तौ। कः साक्षीति नृपेणोक्तौ सिद्धदत्तमवोचताम् ॥ ६८५॥ आइय सिद्धदत्तोऽपि राज्ञा पृष्टःप्रनष्टधीः । अन्योक्तं नृपपुत्रस्य मान्यस्यान्यायमन्ववक् ॥ ६८६ ॥ अतस्तं साक्षिणं रोषान्मिथ्याकृत्य क्षमापतिः। विंशति स्वर्णकोटीनामदण्डयदखण्डवाक् ॥ ६८७॥ तस्य द्वेष्यतया पक्षं नाकार्षुर्नागरा अपि । महाजनविरोधी हि न संबन्धी सुखश्रियाम् ॥ ६८८॥ अन्येद्यहृद्यरूपौ तौ व्रजन्ती राजवर्त्मनि । रतिश्रीमन्त्रिणः पत्नी निरक्षत गवाक्षगा॥ ६८९ ॥ निर्भरं बिभरामासानुरागं सा तयोर्द्वयोः। ध्रुवं न सरिति स्थैर्य न विद्युति न योषिति ॥ ६९० ॥ ताभ्यामपि न्यभाल्येषा वेषाडम्बरधारिणी । रूपं | विषयगं चक्षुर्नहि क्षममवीक्षितुम् ॥ ६९१ ॥ नूनं दर्शनमप्यन्यस्त्रीणां दृष्ट्या सरागया । लोकद्वयविरोधीति शुद्धबुद्धि-: धनो धनः ॥ ६९२ ॥ शत्रोरिवोद्वेगकरात् सर्पादिव भयंकरात् । दृशौ संहृत्य तद्रूपादर्कादिव गतोऽग्रतः ॥ ६९३ ॥ युग्मम् ॥ सिद्धदत्तः पुनर्दत्तदृष्टिरूचं स्मरान्धितः । तस्थौ तत्रैव पश्यंस्तां निखात इव भूतले ॥ ६९४ ॥ तया च सह हासादि मुहुस्तन्वन्नपत्रपः । निरक्षत तलारक्षमङ्क चारक्षि सग्रहम् ॥ ६९५ ॥ तमार्पिपन्नमी राज्ञस्तदन्यायोक्तिपूर्वकम् । पापकर्मकृतां शास्ता महीपतिरिहैव हि ॥ ६९६ ॥ नृपोऽपि कुपितः कोटीर्दण्डयामास तं दश । न ह्यन्यायवतां धाग्नि स्थेमानं भजते रमा ॥ ६९७ ॥ हीयमानधनः सिद्धो निर्विवेकतयाऽजनि । धनः पुनर्विवेकेन वर्धमानधनोऽन्वहम् ॥६९८॥ अन्येधुर्धनदत्ताय रहः कश्चन विक्रयी । प्रत्येक कोटिमूल्यानि दश रत्नान्यदीहशत् ॥ ६९९ ॥ किं मूल्यमित्यनेनोक्ते
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy