SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ मामात्र 655555 "नवाकवार्षिशीतांशु १४९९ मिते विक्रमवत्सरे । चित्रकूटमहादुर्गे ग्रन्थोऽयं समपद्यत ।" इत्यनेन पद्येन ग्रन्थनिर्माणकालस्य निश्चये सति एतेषां सत्तासमयोऽपि विक्रमार्कीयपञ्चदशशताब्दीयः सुप्रतीत एव । एतद्वन्थव्यतिरिक्ता एतद्वाचकमहाशयविरचिता अन्येऽपि ग्रन्थाः सन्ति न वेत्येतद्विषयस्य निर्णयस्तु कर्तुं न पार्यतेऽद्यावधि काप्येतन्महाशयकृतान्यग्रन्थस्योपलम्भाभावात् । अस्य दानप्रदीपग्रन्थस्य स्थूलविषयविभागः पृथक्संपादितोऽस्ति ततोऽवलोकनीयः ।। ग्रन्थस्यास्य श्रीमद्दोलतविजयोपदेशेन सौराष्ट्रावनिवनिताललाटतिलकायमानपोरबन्दरवास्तव्याभ्यां श्रेष्ठिवर्याभ्यां श्रीजैनमतवासनावासितान्तःकरणाभ्यां धर्मसिंहात्मज-मूलजी-दुर्लभदासाभ्यां मुद्रणोपयोगिद्रव्यसाहाय्यं दत्तं तेनैतयोः पुस्तकोद्धारविषयिक धर्मकार्य समयोचितत्वेन प्रशंसाहम्। एतत्संशोधनसमये पुस्तकद्वितयमेव समासादि । तत्राचं मुनिवर्यश्रीमन्मोहनलालमुनेः सूर्यपुर (सुरत) स्थपुस्तकभाण्डागारसत्कं चतुरधिकशतप्रमितपत्रात्मकं प्राचीनं शुद्धप्रायम् । द्वितीयं पुनायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्यप्रवर्तकश्रीमत्कान्तिविजयमुनेरिक्षेत्र ( वडोदरा) | स्थचित्कोशीयं षट्त्रिंशदधिकशतपत्रात्मकं नवीनं शुद्धप्रायम् । एतत्पुस्तकद्वितयाधारेण संशोधन विषये साहाय्यं समुपलभमानः पुस्तकसमणोदारयोरेतयोः परोपकृति स्मृतिगोचरतां नयामि । अनन्तरोक्तपुस्तकद्वितयाधारण सावधानीभूय संशोधितेऽप्यत्र निबन्धेऽस्माकं दृष्टिदोषेण शिक्षकाक्षरयोजकदोषेण वा यत्र कचनाशुद्धिवों चकमहाशयानां दृष्टिपथमवतरेत्तत्र संशोध्य वाचनीयमुदाराशयै(धनैरिति प्रार्थयते वेदयॆङ्कधराब्द पौषदशम्यां शुभे दिने सोमे । प्रवर्तकश्रीमत्कान्तिविजयचरणसेवाहवाकः चतुरेण मोहमय्यां लध्वी प्रस्तावना लिखिता । चतुरविजयो मुनिः।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy