SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ भुजे । आकर्ण्य खिन्नवान् गेहान्निरगात् स प्रियान्वितः ॥ ३९५ ॥ इत्याकर्ण्य स्वनाथस्य कथां धनवती द्रुतम् । हर्षमाणोन्मुखीभूय तं कान्तमिव वीक्षते ॥ ३९६ ॥ पुनर्जजल्प कुब्जोऽपि ततो युक्तः स कान्तया । प्रतस्थे यानपात्रेण वार्द्धां द्वीपान्तरं प्रति ॥ ३९७ ॥ दैवाच्च स्फुटिते पोते स पपात सरित्पतौ । वक्ष्येऽग्रे प्रातरित्युक्त्वा कुजो बध्नाति पुस्तिकाम् ॥ ३९८ ॥ ततो धनवती क्षिप्रं तदुपान्तमुपेयुषी । निपत्य पादयोः कुजं जल्पति स्म कृताञ्जलिः ॥ ३९९ ॥ पोतस्य स तदा भङ्गे कुमारः पतितोऽम्बुधौ । किं जीवत्यथवा नेति वद सद्यः प्रसद्य मे ॥ ४०० ॥ ततः कुनः पुनः प्रोचे राजन्नेकां मनस्विनीम् । अवीवदमहं प्रातर्वादयिष्ये परे पुनः ॥ ४०१ ॥ नृपोऽप्यवोचदप्येते संप्रत्येवाभिलापय । शीघ्रायते यदत्रार्थे सर्वेषामपि मानसम् ॥ ४०२ ॥ अवोचत ततः कुब्जः श्रूयतां तर्हि सादरम् । अथासौ फलकं लब्ध्वा कुमारोऽब्धिमलङ्घयत् ॥ ४०३ ॥ प्राप्तो रत्नपुरे रत्नवतीं रत्नप्रभात्मजाम् । उपयेमे समुज्जीव्य सर्पेणोपद्रुतामसौ ॥ ४०४ ॥ इति श्रुत्वा भृशं हृष्टा दध्यौ रत्नवती हृदि । पत्युर्ममापि वृत्तान्तं यथावत्कथयत्ययम् ॥४०५॥ ततः साऽपि द्रुतं तस्योन्मुखीभूयोन्मिषेक्षणा । सहर्षा वीक्षते कुजं चकोरीव सुधाकरम् ॥ ४०६ ॥ धनवत्यपि जीवन्तमवेत्य मुदिता पतिम् । भर्तुरेकतयाऽन्योन्यं भगिनीं मन्यते स्म ताम् ॥ ४०७ ॥ कुलोऽपि पुनराचष्ट ततोऽनुज्ञाप्य भूपतिम् । सपत्नीकः स पोतेन प्रतस्थे स्वपुरं प्रति ॥ ४०८ ॥ तमन्यदाऽर्णवे रत्नवतीरूपविमोहितः । रुद्रो रौद्रपरीणामः पातयामास पातकी ॥ ४०९ ॥ अग्रतस्तस्य संबन्धमभिधास्ये प्रगे पुनः । इत्युक्त्वा मौनमाश्रित्य संवृणोति स पुस्तिकाम् ॥ ४१० ॥ ततो रलवती शीघ्रमुपागत्य तदन्तिकम् । धनवत्याऽन्विता कुजमुवाच रचिताञ्जलिः ॥ ४११ ॥ प्रसद्य पदमेकं मे पुरतः प्रतिपाद्यताम् । पतितः सरि
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy