SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ NAS45445AR यो विशेषः फलं प्रति । स पुनः प्राणिनां भिन्नप्राच्यकर्मनिमित्तकः ॥ ३३९ ॥ शुभाशुभं यथा पूर्वमिमाभ्यां कर्म निर्ममे।है। कथ्यमानं महीनाथ ! तथा सम्यग् निशम्यताम् ॥ ३४०॥ ___ बभूव नगरी कान्ती भान्ती यात्यद्भुतश्रिया । भरतं भूषयामास कासारं पद्मिनी यथा ॥ ३४१॥ तत्र शङ्ख इवोन्मेपिशब्दः सहजनिर्मलः । श्रेष्ठी शङ्खाभिधश्चित्रमन्तःकुटिलतोज्झितः॥३४२॥ तस्य धर्मोपयोगेन निर्मलाः सकलाः कलाः। कुम्भोद्भवोदयेनेव बभूवुः सलिलाशयाः॥३४३॥ दयिता तस्य पद्मश्रीः पद्मश्रीरिव दिद्युते । शीलसौरभपूरेण वासयामास या दिशः॥ ३४४ ॥ अगण्यपुण्यलावण्यपुण्यश्रीस्तनया तयोः। पुण्यश्रीरिव या मूर्तिमती वरयितुर्बभौ ॥ ३४५॥ धन्यपुण्यकनामानौ नानाकर्मसु कर्मठौ । तस्य कर्मकरौ शुद्धिमत्करौ विनयाकरौ ॥ ३४६॥ धन्यः सुसाधुसंबन्धशुद्धबुद्धिरधारयत् । धर्मानुरागमन्यस्तु न वैगुण्येन कर्मणाम् ॥ ३४७ ॥ श्रेष्ठिना निजकन्यायाः पाणिग्रहमहोऽन्यदा। संसारनाटकस्येव पूर्वरङ्गः प्रचक्रमे ॥ ३४८ ॥ तत्रौदनादिपाकादिकर्त्तव्येषु न्ययुत तौ । श्रेष्ठी कर्मकरौ धन्यपुण्येनेव प्रणोदितः ॥ ३४९ ॥ भवाब्धेस्तारणायेव हस्तविन्यस्ततुम्बकः । साधुसङ्घाटकः पाकस्थानं तत्राप पापमुक् ॥ ३५०॥ तं दृष्ट्वा धन्य मूर्धन्यो धन्यः पुण्यमतिर्मुदा । अभ्युदस्थादिवादातुमुच्चैः पुण्यमयं फलम् ॥ ३५१॥ सप्ताष्टानि पदान्येनं स रङ्गादभिहै जग्मिवान् । समायान्तीमिव स्वस्मिन्नसीमाद्भुतसंपदम् ॥ ३५२ ॥ सम्यगविधि तमानम्य भक्त्या पर्यन्वयुत सः। प्रस-16 द्यादिश्यतामत्र केनागमत हेतुना ॥ ३५३ ॥ अथाग्रणीजगौ साधुः सूरि रिपरिच्छदः । विहरन् सह सार्थेन प्राप्तोऽस्मि पुरतो बहिः ॥ ३५४ ॥ तपस्विशैक्षस्थविरक्षुल्लाद्यास्तत्र संयताः। भृशं पिपासिताः सन्ति श्रान्ता बहुविहारतः॥ ३५५ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy