SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ११० ॥ तदर्थं प्रासुकं वारि विहर्तुं नगरान्तरे । पर्यटन्तो वयं तावदागमाम भवद्गृहम् ॥ ३५६ ॥ ततः प्रमोदरोमाञ्च सञ्चयाश्चितमूर्तिकः । धन्यः पुण्यवतां मान्यो विनयात्तं व्यजिज्ञपत् ॥ ३५७ ॥ धन्याः सुलब्धजन्मानस्त एव भुवि मानवाः । तुभ्यं प्रशस्तवस्तूनि ददते ये प्रमोदतः ॥ ३५८ ॥ अस्वामित्वेन चास्माकं तद्दाने न प्रभूष्णुता । न वापः सूपपादो हि कलमानामकिञ्चनैः ॥ ३५९ ॥ कुण्डिकासु तदेतासु प्रभूतं तन्दुलोदकम् | त्याज्यत्वादस्मदायत्तं गृह्यतामनुगृह्यताम् ॥ ३६० ॥ एवमालापमावापं दान कल्पमहीरुहः । तन्वानं धन्यमाचख्यौ पुण्यकोsपुण्य काग्रणीः ॥ ३६१ ॥ एते मायाविनो मित्र ! परवञ्चनचञ्चवः । असत्यवादनिष्णाताः शौचाचारविवर्जिताः ॥ ३६२ ॥ न निरीक्षितुमप्येषां मुखमर्हति गर्हितम् । ततो न तोयमप्येभ्यो भ्रातर्दातुं तवोचितम् ॥ ३६३ ॥ एवं दानप्रतीषेधं निषेधं तु स्वशर्मणाम् । कुर्वाणं पुण्यकं धन्यः समन्यु| रिदमभ्यधात् ॥ ३६४ ॥ आः कर्णशूलमालापीः पापीयः किमिदं वचः । कथं चेदृशि दुर्वाक्ये ववले तव लोलया ॥ ३६५ ॥ निवृत्ताः सर्वपापेभ्यः प्रवृत्ताः पुण्यकर्मसु । अभी हि जगतः पूज्या ज्यायांसो गुणसंपदा ॥ ३६६ ॥ एषां संयमिनां निन्दां मदान्धा ये वितन्ते । खनयः खलु दुःखानां ते भवन्ति भवे भवे ॥ ३६७ || दौर्भाग्यं प्रगुणीकरोति तनुते दौर्गत्यमत्युल्वणं कीर्त्ति कृन्तति दुर्गतिं च चिनुते संपादयत्यापदम् । पापं प्रापयति प्रदीप्तिमभितो धर्म परिध्वंसते किं किं न व्यसनं तनोत्यसुमतां निन्दा मुनीन्द्राश्रया ॥ ३६८ ॥ परस्यापि भवेन्निन्दा नानाऽनर्थप्रथाकरी । किं पुनस्त्यक्तसङ्गानां मुक्तिमार्गेकगामिनाम् ॥ ३६९ ॥ ततो निन्दा मुनीन्द्राणां भ्रातर्माऽतः परं कृथाः । अनात्मनीनमात्मज्ञः कर्म प्रक्रमते हि कः ॥ ३७० ॥ एत एव पुनर्दानमर्हन्ति जगदर्हिताः । यदनन्तगुणं तेभ्यो वितीर्णमुपतिष्ठते ॥ ३७१ ॥ इति भक्तिवचोयुक्ति सप्तमः प्रकाशः । ॥ ११० ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy