________________
दा० ३०
श्चतुरो यथा ॥ ५९ ॥ तथाहि
पुरे हेमपुरे नाम शैशवे श्रितसौहृदाः । चत्वारस्तनया राजमन्त्रिश्रेष्ठिपुरोधसाम् ॥ ६० ॥ समानवयसस्तुल्यकालं | सुखितदुःखिताः । चेलुर्देशान्तरेऽनेक कौतुकालोकनोत्सुकाः ॥ ६१ ॥ भूयांसं मार्गमुख्य कान्तारे क्वाप्युषामुखे । तस्थुः सिकतिले शाखितले ते धीरचेतसः ॥ ६२ ॥ न भवेज्जाग्रतो भीतिरिति नीतिविदो व्यधुः । क्रमेण याममेकैकं जागर्यमिति ते स्थितिम् ॥ ६३ ॥ जाग्रति श्रेष्ठिपुत्रेऽथ शयितेष्वितरेषु च । शिखरे शाखिनस्तस्य शब्दः समुदभूदिति ॥ ६४ ॥ भूयानर्थः समस्त्यत्र किन्त्वनर्थेन वेष्टितः । यदीच्छसि तदा सद्यो भवन्तमुपतिष्ठते ॥ ६५ ॥ इत्याकर्ण्य गिरं श्रेष्ठिनन्दनोऽनर्थ भीरुकः । मा मेति स्पष्टमाचष्ट वणिजो हि गृहं भियाम् ॥ ६६ ॥ यामेऽप्येवं द्वितीये च तृतीये च भयद्रुतौ । तद्द्रव्यं नाद्रियेते स्म पुत्रौ मन्त्रिपुरोधसोः ॥ ६७ ॥ तेषु निद्रायमाणेषु तुर्ययामे तु राजसूः । गिरं तामेव शुश्राव जाग्र| दत्युग्रसाहसः ॥ ६८ ॥ व्यक्तं भुङ्क्ते श्रियं धीरो न भीरुर्यद्व्यथाक्षमः । कर्णः स्वर्णेन भूष्येत चक्षुस्त्वञ्जनरेखया ॥ ६९ ॥ एवं विचिन्त्य स्वच्छन्दमागच्छेति जगाद सः । ततस्तस्य पुरोऽपतद्दीप्ताङ्गः स्वर्णपूरुषः ॥ ७० ॥ तं निभालय प्रभातेऽथ मुदितास्ते प्रतस्थिरे । मिथो रात्रिकथालापसमर्थितपथाः पुरः ॥ ७१ ॥ जातायां भुक्तिवेलायां श्रेष्ठिधीसखनन्दनौ । जग्मतुर्भोज्यमानेतुं कश्चन ग्राममन्तरा ॥ ७२ ॥ आवामेव सुवर्णस्य भवावः स्वामिनाविति । ध्यात्वा तौ दुर्मती भक्त विषेणाकं वितेनतुः ॥७३॥ तौ च प्राप्तौ तदादाय बाह्याभ्यामपि दुर्धिया । तथैव ध्यातपूर्विभ्यां जन्नाते निशितासिना ॥७४॥ भुक्तौ तावपि सद्भक्तं यमावासमवापतुः । सपद्यपि भवेत्पापमत्युग्रं हि फलेग्रहि ॥ ७५ ॥ इत्यन्यायेन ते वित्तं च सुहृदः