________________
दानप्रदीपे
चतुर्थ: प्रकाश
॥७३॥
यथाविधि सदाऽप्यदात् । कन्याया इव यल्लक्ष्म्या दानमेवोचितं सताम् ॥ ३९० ।। व्यधात् स वसुधाधीशश्चतुर्दश्यादिपर्वसु । विधिना पौषधं कर्म व्याधीन हन्तुमिवौषधम् ॥ ३९१ ॥ इत्यगण्यानि पुण्यानि तन्वानो मतमाहतम् । भासयन् सुचिरं राज्यं बुभुजे भूभुजांवरः ॥ ३९२ ॥ अथावगम्यावसरं निजाङ्गजे नियोज्य राज्यं समतासुधौक्षितः । त्यक्त्वा चतुर्धाऽप्यशनं वशीकृतेन्द्रियश्चतुर्णा शरणं समाश्रितः ॥ ३९३ ॥ अजस्रवर्धिष्णुशुभानुबन्धिध्यानाम्बुशुद्धीभवदन्तरात्मा । सम्यगूनमस्कारजपे वितन्द्रः श्रीतारचन्द्रः प्रतिपद्यमृत्युम् ॥ ३९४ ॥ शय्यादानजपुण्यराशिभिरिव प्रेडन्मणिज्योतिषां प्राग्भारैः प्ररितः प्रभास्वरतरं दिव्यद्धिभिर्बन्धुरम् । सर्वाङ्गीणसुखश्रियां विलसनस्थानं विमानं गतः स्वर्गी स्वःपतिना समानविभवः स्वर्गेऽजनि द्वादशे ॥ ३९५ ॥ चतुर्भिः कलापकम् ॥ ततश्चयुत्वा विदेहेषु सुकुलं प्राप्य संश्रितः। तपस्याक्षीणनिःशेषकर्मा मोक्षमयं गमी ॥ ३९६ ॥ सचिवः कुरुचन्द्रस्तु धर्मकर्मपराङ्मुखः। अभीक्ष्णं विषयाकाशनकलुषीभवदाशयः॥ ३९७ ॥ विपद्य पर्वते कापि कपित्वेनोदपद्यत । जिनधर्मविहीनानां स्थानं दुर्गतिरेव हि ॥ ३९८॥ युग्मम् ॥ अन्यदा भूभृदासत्तौ सार्थेन पथि गच्छतः। मुनीश्वरानसौ दिष्ट्या दृष्ट्वा दृष्ट्वा विमृष्टवान् ॥ ३९९ ॥ अमूनमूदृशाकारान् पुरा क्वापि व्यलोकयम् । इत्यूहं कुर्वतस्तस्य जातिस्मृतिरजायत ॥ ४०॥ स्मृत्वा पूर्वभवं सौवं सुहृदं मेदिनीश्वरम् । गुरूंस्तदुपदेशांश्च स दध्यौ खेदमेदुरः ॥ ४०१॥ अहो ! मे गुरुभिः सर्वजनीनैः स्वामिनाऽपि च । उपदेशा अदी| यन्त तदायतिहितावहाः ॥ ४०२॥ परं ते नाद्रियन्ते स्म मया खात्मैकवैरिणा । भिषग्वरोदिता मर्तुकामेनेव प्रतिक्रियाः ॥४०३ ॥ मद्वेश्मनि न्यवेश्यन्त धर्मोपकृतये मम । गुरवो मेदिनीशेन हादसौहार्दशालिना ॥४०४॥ प्ररुरोह महा