SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ | सर्वे प्रादुष्क्रियन्ते स्म निजैस्तत्तादृशैर्गुणैः॥ १७६ ॥ त्वयैवोत्तमपुत्रेण स्वामिवंशोऽद्य भासते । नभो नभोमणिं मक्त्वा नहि भाति ग्रहैः परैः॥ १७७ ॥ अहं शक्रोऽस्मि राजंस्त्वां परीक्षितुमुपागमम् । मादृक्षेण परीक्षा ते विश्वोत्तमगुणस्य का ॥ १७८ ॥ परीक्षयाऽनया च त्वं मया सन्तोषितोऽसि यत् । तं क्षमस्वापराधं मे सन्तः सर्वसहा यतः॥ १७९ ॥ कृत्यं भरतभूभर्तुस्त्वयि सर्व हि युज्यते । अतः शत्रुञ्जये यात्रां तथा तीर्थोद्धृति कुरु ॥ १८० ॥ सान्निध्यं ते विधाताऽस्मि सद्यस्तत्र समागतः । इत्याकर्ण्य महीजानिमुदितः प्रत्युवाद तम् ॥ १८१॥ साधु शक! त्वयादिष्टं त्वं मे भरतसंनिभः। सङ्घमाकार्य यात्रायै चलितोऽस्म्येव ते गिरा ॥ १८२ ॥ ततस्तस्मै मुदा दत्त्वा कुण्डले सशरं धनुः।हारं रथं च दिव्यानि दिवमाप दिवस्पतिः॥ १८३ ॥ अथ त्रिखण्डतः सङ्घानाकार्य गुरुकार्यकृत् । स्वर्णदेवालये रत्नबिम्ब न्यस्यादिमप्रभोः। ॥ १८४ ॥ स्थाने स्थाने सृजन स्नात्रध्वजारोपादिकान् महान् । व्यययन् कोटिशो वित्तं प्राप शत्रुञ्जयं नृपः॥ १८५॥ तत्क्षणायातशक्रोक्तविधिना विदधे नृपः। स्वर्णपुष्पादिभिस्तीर्थपूजास्त्रात्रादिकोत्सवान् ॥१८६॥ विस्मापितसुपर्वाणमपूर्वामुत्सवावलिम् । कुर्वन् यथेच्छमर्थिभ्यो यच्छन् स्वईयते स्म सः॥ १८७॥ प्रासादान् जर्जरांस्तत्र शक्रादेशाच्च भूपतिः। स्वर्णरत्नशिलास्तोमैः प्रमोदादुददीधरत् ॥१८८॥ इत्थं रैवततीर्थेऽपि यात्रोद्धारौ विधाय सः। अतुच्छरुत्सवः प्राप निर्विघ्नं निजमन्दिरम् ॥ १८९ ॥ स्वर्णरत्नदुकूलादिदानः सम्मान्य नैकधा । प्रापयामास सङ्घानप्यविघ्नं स्वं खमालयम् ॥ १९०॥ प्रासादान् कोटिशोऽप्येष स्फटिकादिभिराहतान् । कारयन् भासयामास शासनं जैनमन्वहम् ॥ १९१ ॥ भरतेश इवाद-13 शेऽन्यदा पश्यन् वपुःश्रियम् । भावयन् भावनामन्तः शिश्रिये केवलश्रियम् ॥ १९२ ॥ प्रपाल्य व्रतपर्यायं पूर्वार्द्ध स दा०१६
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy