SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ । पष्ट प्रकाशः। दानप्रदीपे: विशुद्धधीः । क्षीणनिःशेषकर्मा सन्नवाप परमं पदम् ॥ १९३ ॥ इत्यादभवन् कामधर्ममोक्षाः क्षितीशितुः । अतः सर्वपुमर्थे भ्यस्तस्यैवास्तु प्रधानता ॥ १९४ ॥ ॥९१॥ ___ अथ पादस्तृतीयोऽपि वादीव प्रत्युवाद तम् । यदवादि त्वया वादिन् ! अर्थस्यैव प्रधानता ॥ १९५॥ तदयुक्तं यतोऽर्थस्य धर्म एव निबन्धनम् । नहि धर्म विना क्वापि भवत्यर्थस्तनूमताम् ॥ १९६ ॥ श्रूयते वस्तुपालोऽपि सङ्गमः पुण्यसङ्गतः। अवाप संपदं दिव्यां जगद्विस्मयकारिणीम् ॥ १९७ ॥ दिनमेकं तथा धर्ममाराध्य द्रमकोऽप्यहो!। त्रिखण्डा|धिपतिर्जज्ञे सम्प्रति पृथिवीपतिः॥१९८॥ धर्मस्याङ्गता सिद्धौ सिद्धा कामाङ्गताऽपि च । अर्थयोगे यतः सर्वाः सुलभाः कामसंपदः ॥ १९९ ॥ द्वयोरपि यथा दुग्धं निमित्तं दधिसर्पिषोः । तथाऽर्थकामयोर्हेतुर्धर्म एव प्रकीर्त्यते ॥२०॥ इहापि धर्मगृह्याणां संपदः स्युः पदे पदे । अत्रार्थे श्रूयतां मन्त्रिधर्मबुद्धिनिदर्शनम् ॥ २०१॥ ___ अभूद्विभूषणं पृथ्व्याः पृथ्वीभूषणपत्तनम् । यत्र स्वं भूषयामासुर्जनाः सद्गुणभूषणैः ॥ २०२॥ यथार्थिताभिधः पापबुद्धिस्तत्र धराधिपः । न जातु रमते यस्य धर्मे रम्येऽपि ही मतिः॥२०३ ॥ धर्मबुद्धिरभूत्तस्य सचिवः सुविचारदृक् । येन सत्यार्थयाञ्चक्रे निजं नामाविरामतः॥२०४ ॥ प्रावर्तत नृपः पापे व्यसनादौ दिवानिशम् । नहि पवं विनाऽन्यत्र रमते| शूकरः क्वचित् ॥२०५॥ अन्येधुः सचिवः प्रोचे पापं भूधव !मा विधाः। पापे प्रवर्तमानस्य क्षीयन्ते संपदो यतः॥२०६॥ सुकृते सत्यपि प्राज्ये दुनीतिहरते श्रियम् । तैलेऽपि किमु नो वात्या विध्यापयति दीपिकाम् ॥ २०७॥ ततः पापं परित्यज्य सम्यग् धर्म समाचर । संपद्यन्ते श्रियो येन वर्द्धमाना दिने दिने ॥ २०८ ॥ प्रत्यूचे तमथोवींन्दुरिह दानव्रता ॥९१॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy