________________
देशात्स निस्तंशस्तथाकत प्रचक्रमे । पापशीले हि भूपाले सेवका अपि तादृशाः॥ २९८ ॥ एवं विधीयमाने च तेन भूमिभुजा प्रजाः। अगोपायनपत्यानि वित्तानीव मितंपचाः॥ २९९ ॥ कदा कुकर्मनिर्माणकर्मठस्यास्य भूपतेः । विनाशो भवितेत्यतिपराः पौरास्तदाभवन् ॥ ३०० ॥ अन्येधुर्लुब्धधीर्दध्यौ भूधवः कोऽपि मा स्म माम् । राज्यभ्रंशं बलान्नैषीदोषी 3 प्रायो हि शङ्कितः॥ ३०१॥ अत्रान्तरे तरुवातं मूलादुन्मूलयन् रयात् । कल्पान्तपवनोर्जस्वी स्फूर्जति स्म समीरणः ॥३०२॥ जज्ञे तेनोद्धतै लिपूरैरापूरितेऽम्बरे । मार्तण्डमण्डलं राहुनिगीर्णमिव सर्वतः॥३०३ ॥ दिशोऽप्यासंस्तमःस्तोमैः सर्वतः श्यामतां गताः । अमानैर्मानभङ्गस्य मूतैः पापभरैरिव ॥ ३०४ ॥ अद्यश्वीना नरेन्द्रस्य दुर्मतेरस्य यन्मृतिः। अतो मुदेव पर्जन्या जगजुर्जगतीहिताः ॥ ३०५ ॥ दुरात्मानं नृपं हन्तुं स्फोर्यमाणा मुहुर्मुहुः । कर्तरीव कृतान्तस्य दिद्युते विद्युदम्बरे ॥ ३०६ ॥ तदा च व्योमगं भूतमिथुनं संकथाकरम् । संभ्रान्तमवनीकान्तः शृणोति स्म गवाक्षगः ॥३०७॥ जल्पति स्म प्रियां भूतं ब्रुवे भावि किमप्यहम् । साऽप्यूचे सोपयोगाऽस्मि देव ! सद्यो निवेद्यताम् ॥ ३०८॥ निर्मन्तुजन्तुसङ्घातघातपातकभारितः। विनिपातमुपेतायं स्वल्पकालेन भूपतिः॥ ३०९ ॥ इत्याचक्षाणमाचख्यौ भूतमुद्भूतकौतुका । दयिता भविता कोऽत्र नृपस्तेनाप्यजलप्यत ॥३१०॥ यो नृपाज्ञामवज्ञाता वशीकर्ता मतङ्गजम् । स्वीकर्ता च सुतां राज्ञः प्रभुः स भविता भुवः॥ ३११॥ इत्युदित्वा मिथो भूतमिथुनं तत्तिरोदधे । व्यलीयत समस्तोऽपि विप्लवः पवनादिभूः॥ ३१२ ॥ अथ मृत्युभयोद्धान्तस्वान्तः क्ष्माकान्त उन्मदः । अक्षेपेण पुरारक्षमित्यादिक्षत रूक्षधीः ॥३१३ ॥ दुष्टात्मा यो भटमन्यो ममाज्ञामवमन्यते । त्वया नेयः स कीनाशदासभूयमशङ्कितम् ॥ ३१४ ॥ जगाम
दा.
.