SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ द्वेषापनुत्तये । व्यवस्था प्रथयाञ्चके तेनावक्रेण तद्यथा ॥ ३८८ ॥ आद्यस्तुरगदासेरगवादिक्रयविक्रये । कुशलस्तेन तद्भागे सन्तु सर्वचतुष्पदाः ॥ ३८९ ॥ द्वितीयस्य तु निस्तुल्यं कौशलं कृषिकर्मसु । अतस्तदीयभागेऽस्तु वास्तुक्षेत्रकणादिकम् ॥ ३९० ॥ नैपुण्यं पण्यशालायां तृतीयः श्रयतेऽधिकम् । तस्यांशेऽस्तु ततः शेषवस्तुलभ्यादिलेख्यकम् ॥ ३९१॥ इत्यर्थज्ञापनार्थ च त्रयाणां निधिषुक्रमात् । पिता न्यधत्त रोमाणि मृत्तिका कागदांस्तथा ॥ ३९२ ॥ तुरीयस्तु लघुत्वेन वाणिज्यादिषु न क्षमः । अतः स्वर्णादिकं तस्य निधानान्तरयं न्यधात् ॥ ३९३ ॥ स्वर्णादि च कियद्रव्यमिति पृष्टाः सुबुद्धिना। भ्रातरः प्रत्यभाषन्त लक्षसंख्यमिदं धनम् ॥ ३९४ ॥ सोऽप्यभाषत युष्माकमप्यशेषु निरीक्ष्यताम् । प्रत्येक प्रायशो लक्षधनमस्तीति निर्णयः॥ ३९५ ॥ यद्यस्य फलदं पित्रा ददृशे दीर्घदर्शिना हितेनादेशि तत्तस्मै भैषज्यं भिषजा यथा ॥ ३९६ ॥ किं मुधा मत्सरः स्वच्छे बीजिन्यवरजे च वः। त्याज्यं सर्वत्र मात्सर्य किं पुनः स्वे गुणाधिके ॥ ३९७ ॥ अतः स्वीकृत्य ताताज्ञां यतध्वं स्वस्वकर्मसु । सुखं कीर्तिः प्रतिष्ठा च यथा वः स्फायतेऽन्वहम् ॥ ३९८॥ एवं तदुपदेशाम्बुशुद्धया स्वधियाऽपि ते । स्वस्वांशेष्वपि लक्षस्वं समीक्ष्य जहषुस्तमाम् ॥ ३९९ ॥ अहो ! नः पितुरौचित्यं य इत्थं तथ्यवत्सलः । जीविकोपायमस्माकं यथार्ह स समादिशत् ॥ ४०० ॥ अहो! मतिरसीमा ते यज्ज्ञानीव त्वमञ्जसा। तस्यातिगूढमप्येनमभिसन्धिमबुध्यथाः॥४०१॥ त्वं पिता जीवितव्यं च भीषणात्कलिरक्षसः । सर्वव्यसनदादस्माद्यदस्मान् द्रागमूमुचः ॥ ४०२ ॥ इत्युक्त्वा ते कुमारोक्तं यथावत्प्रतिपेदिरे। मार्गमुन्मार्गगः सम्यग् दर्शितं कः श्रयेत न | ॥४०३ ॥ सुबुद्धिस्तानथाकार्य कार्यविज्जगतीपतेः । पुरः प्रकाशयामास सर्व बुद्धिविजृम्भितम् ॥ ४०४॥ राजाथ 23.AAAIG45
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy