SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ ४२ ॥ त्वया । गुरुवद्गुरुपुत्रो मे पाल्यः पूज्यश्च पर्वतः ॥ ७६३ || अद्याकालकरालकुकालः कमकटाक्षयत् । को हि दुह्यति मात्रे ब्रूहि मातः ! किमातुरा || ७६४ ॥ नारदेन समं वादं स्वपुत्रस्य पणं च तम् । ताभ्यां कृतं च तत्साक्ष्यं निवेद्यार्थयते स्म सा ॥ ७६५ ॥ भ्रातुर्जीवितदानार्थमजान् मेषानुदीरयेः । रक्षतश्च गुरोः पुत्रं न ते पापमसत्यजम् ॥ ७६६ ॥ सन्तो मृषाऽपि भाषन्ते परस्य त्राणहेतवे । गुरुत्वेन प्रपन्नस्य गुरुपुत्रस्य किं पुनः ? ॥ ७६७ ॥ अथाजल्पन्नृपो मातः ! कथमाजन्मपालितम् । अद्य लुम्पाम्यहं सत्यव्रतं जीवादपि प्रियम् ॥ ७६८ ॥ नान्यदप्यभिधातव्यमसत्यं पापभीरुणा । गुर्वाख्यातश्रुतिव्याख्याकूटसाक्ष्ये तु का कथा ? ॥ ७६९ ॥ रक्ष्याः स्वभ्रातरं यद्वा सत्यत्रतकदाग्रहम् । तया सरोषमि - त्युक्तस्तद्वचोऽमंस्त भूपतिः ॥ ७७० ॥ ततः प्रमुदितस्वान्ता जगाम निजधाम सा । नृपतेस्तां प्रपत्तिं च ज्ञापयामास पर्वतम् ॥ ७७१ ॥ ततो द्विगुणितस्फूर्तिः पर्वतो गर्वपर्वतः । नारदेन समं प्राप वादाय नृपसंसदि ॥ ७७२ ॥ सभ्याश्च सदसद्वादक्षीरनीरसितच्छदाः । समगंसत संपन्ना गुणैर्मध्यस्थतादिभिः ॥ ७७३ ॥ स्फटिकोपलवेदिस्थं तेजस्वी वसुभूपतिः । सिंहासनमलञ्चक्रे व्योमाङ्गणमिवार्यमा ॥ ७७४ ॥ ततो निजनिजव्याख्यापक्षं नारदपर्वतौ । आचख्यतुः क्षितीशाय सत्यं ब्रूहीति भाषिणौ ।। ७७५ || अभ्यधुश्च नृपं वृद्धा विवादस्त्वयि तिष्ठते । रोदस्योः कर्मसाक्षीव साक्षी त्वमेनयोः खलु ॥ ७७६ ॥ जायन्ते देव ! दिव्यानि ज्वलनादीनि सत्यतः । सत्याद्वर्षन्ति जीमूताः सत्यात्तुष्यन्ति देवताः ॥ ७७७ ॥ निराधारा धराप्येऽषा सत्यादेवावतिष्ठते । धर्मश्चायं समग्रोऽपि सत्यादेव प्रतिष्ठते ॥ ७७८ ॥ इदं मन्त्रैरिव स्तब्धं तव सिंहासनं दिवि । सत्यादेव निरालम्बं स्थेष्ठमेवावतिष्ठते ॥ ७७९ ॥ सत्यमेव स्थिरं विश्वे सर्वमन्यद्विनश्वरम् । सत्य - द्वितीयः प्रकाशः । ॥ ४२ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy