SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ दानप्रदीप ॥११९॥ वत्स ! प्रजाभिश्चाभिनन्द्यसे ॥ १८६ ॥ त्रिभिर्विशेषकम् ॥ एवं पालयतो राज्यं तव बाह्यान्तराः श्रियः । बिडौजसाम-INIm प्यहार्या वर्धिष्यन्ते दिने दिने ॥ १८७ ॥ प्रकृत्यैव प्रवीणोऽसि धुरीणोऽसि सुकर्मसु । परं तरलयत्येषा लक्ष्मीर्दक्षमपि प्रकाश क्षणात् ॥ १८८ ॥ तदेवं त्वं मया जात! पौनःपुण्येन भण्यसे । इमां चोद्धर साम्राज्यधुरां पितृभिरुद्धृताम् ॥ १८९॥ संयमैश्वर्यमच्छद्म वयमादद्महे पुनः । समयस्यानुरूपं हि कृत्यं श्रेयस्करं नृणाम् ॥१९० ॥ शिक्षासुधाभिरित्यन्तर्बहिस्तीर्थजलैः पुनः । संस्त्राप्य रत्नपालं तं राजा राज्ये न्ययोजयत् ॥ १९१॥ अथ निर्माय निर्मायश्चैत्येष्वष्टाहिकामहम् । तपस्यामाददे भूपः पुत्रसंसूत्रितोत्सवः ॥ १९२ ॥ चिरं संयममाराध्य तपस्तप्त्वा च दुस्तपम् । केवलश्रियमासाद्य स प्राप परम पदम् ॥ १९३ ॥ अथापास्ततमाः स्फाति नयन् नयसरोरुहम् । रत्नपालमहीपालो बालार्क इव दिद्युते ॥१९४ ॥ शृङ्गारसुन्दरीमुख्यास्तस्य राज्ञयः सहस्रशः बभूवुर्निजसौभाग्यपराभूतसुरस्त्रियः ॥ १९५ ॥ जयस्तस्याखिले कार्ये धुर्योऽजायत धीसखः । यन्मतेः पारमाप्नोति न वाक्पतिरपि स्वयम् ॥ १९६॥ अयं शङ्ख इवात्यन्तमन्तःकुटिलतान्वितः । राजानं रञ्जयामास वाग्माधुर्येण केवलम् ॥ १९७ ॥ सर्वकार्याणि कुर्वाणममुं सर्वाभियोगतः। दर्श दर्श नृपश्चित्ते पिप्रिये सरलाशयः॥ १९८ ॥ अविश्वासमयीं नीतिं विदन्नपि गुरूदिताम् । विश्वस्तं सर्वतश्चक्रे तं विधेयाश्रवं बहिः ॥ १९९ ॥ नृपमावर्जयामास स दाण्डाजिनिकस्तथा । यथा न्ययुत सर्वत्र राज्यकार्ये तमेव सः॥२००॥ अथाव्यापृतिरुवीशः कामेष्वा- सज्यते स्म सः। नियापारः पुमान् प्रायः प्रमादेनोपमद्यते ॥ २०१॥ प्रमादोपद्रवं स्वस्य निवारयितुमिच्छता । सदाऽपि व्यापृतः स्वात्मा विधेयो धर्मकर्मसु ॥ २०२॥ अजस्रं विषयासक्तं वीक्ष्य तं हृष्यति स्म सः । स्वर्णकार इव स्वर्णरक्ष ॥११९॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy