________________
सापक्ष्यादिव नाभ्येति भारत्यालिङ्गितं नरम् । व्ययायासभियेवासौ दातारं नोपसर्पति॥१७१॥दूरं परिहरत्येषा शरं कण्टकXIवत्पुनः । कलङ्कितमिव क्वापि विनीतं नावलोकते ॥ १७२ ॥नापवित्रमिवात्यन्तं गुणवन्तं स्पृशत्यपि । उन्मत्तमिव चातुर्य-17
वन्तं चोपहसत्यसौ ॥ १७३ ॥ न रूपेण न भूपेन न कुलेन बलेन नो।न शौर्येण न धैर्येण स्थैर्यमालम्बते रमा ॥१७४॥ वीक्षते पुण्यमेवैकं पण्यं पण्याङ्गनेव सा । ततस्तदर्थिना तत्र यतनीयमनारतम् ॥ १७५ ॥ विधातुं दुःशकं तच्च व्यसनासक्तमानसः । व्यसनं हि विनाशाय बाह्याभ्यन्तरसंपदाम् ॥१७६ ॥ दुरन्तव्यसनासक्तिमदिष्ठाऽऽनष्टचेतनः । शक्यपछलयितुं बाबैरान्तरैरप्यरातिभिः॥१७७॥ कोशेन स्थिरमूलमप्युरुतरस्कन्धं नृपेणाद्भुतच्छायं तत्तदपत्यविस्तृतमहाशाखाप्रशाखाञ्चितम् । नानारत्नसुवर्णविद्रुममुखप्रौढोल्लसत्पल्लवं सौरभ्यप्रकरैर्यशःकुसुमजलुब्धार्थिभृङ्गव्रजम् ॥१८॥ तत्तद्देश्यकलाप्रवीणविहगस्तोमेन कृप्ताश्रयं प्रासादेन महोच्छ्रयं परिगतं पत्तिच्छदैः सर्वतः। साम्राज्यदुममाशु दुर्नयमहाकल्लोलमालाकुलो दुर्लयो व्यसनाभिधो जलधिगापूरः समुन्मूलयेत् ॥ १७९ ॥ युग्मम् ॥ उद्दामविक्रमाः कृष्णनलरावणपाण्डवाः । श्रूयन्ते व्यसनादेव परमां प्रापुरापदम् ॥ १८० ॥ सम्यग्दृष्टिरपि प्रौढविद्यावानपि सत्यकिः । असक्तं विषयासत्या भिजे कुमृतिदुर्गती ॥ १८१॥ अवाप द्वादशश्चक्री षोडशाब्दीमिहान्धताम् । प्रमादासक्तितः प्रेत्य सप्तमं नरकंटू पुनः॥१८२॥ अमद्यपानप्रभवा स्थायिनी चिरमप्यहो। अनौषधबलापास्या विषयोन्मत्तता नृणाम् ॥ १८३ ॥ तो नित्यं प्रवर्त्तथास्तदनासक्तमानसः। जनैनं हस्यसे येन निन्द्यसे नहि दुर्जनः ॥ १८४॥न वयसे पुनर्धूतन स्त्रीभिर्विप्रलभ्यसे । न कामेनाय॑से राज्यमदेनोन्माद्यसे नहि ॥ १८५॥ स्तूयते सुकृतिस्तोमैरिभिर्नाभिभूयसे । गुरुभिः पूज्यसे |