________________
दानप्रदीपे ॥१३५॥
अष्टम: प्रकाशः।
तत्र निर्भरम् ॥ ७३४ ॥ ततस्तेन समं तत्र प्रस्थातुमहमुद्यतः । लाभे संभाव्यमाने हि न जातु वणिजोऽलसाः ॥ ७३५॥ अतः सुवर्णकोटीस्ता मम प्रत्यर्पय प्रिये ! । नहि नीवीं विना दूरदेशे वाणिज्यसंभवः ॥ ७३६ ॥ विरचय्य वणिज्यां च प्रत्यागन्ताऽस्मि वेगतः । अनेनावर्जनेनाहं जज्ञे यत्ते वशंवदः ७३७ ॥ प्रतिवक्तुमशक्ताथ व्यर्थिताशा शठेन सा । फाल
च्युतप्लवङ्गीव वैलक्ष्यं भेजुषी भृशम् ॥ ७३८ ॥ मुहुर्विवदता तेन नीता साऽन्तश्चतुष्पथम् । उद्वेजिता नितान्तं च पुराशान्तरुदजूघुषत् ॥ ७३९ ॥ भनक्ति यो विवादं मे तस्मै कोटिधनं ददे । द्रव्यलोभाच्च भूयांसस्तत्र चक्रुरुपक्रमम् ॥ ७४०॥
परं न कोऽपि तं भङ्गं वादमुन्मादमादधौ । धनस्य पुनरत्रापि मतिरव्याहताऽस्फुरत् ॥ ७४१ ॥ रत्नानि द्वादश स्वर्णकोटिमूल्यान्ययं करे । शङ्कान्तान्यात्मदर्शान्तदर्शयन् धूर्तमभ्यधात् ॥७४२॥ गृहाण भद्र ! रत्नानि दीप्यमानानि दर्पणे । धूर्तोऽभ्यधत्त सक्रोधं किमेतैः प्रतिबिम्बितैः॥ ७४३ ॥ धनोऽप्यभिदधे भद्र ! जनोक्तिः किमु न श्रुता । यादृशी भावना पुंसः स्यासिद्धिरपि तादृशी ॥ ७४४ ॥ प्रासादो यादृशस्तत्र प्रतिमाऽपि च ताहशी। देवो भवति यादृक्षस्तादृक्षा तत्र पत्रिका ॥ ७४५॥ एवं न्यासीकृतं स्वप्ने यादृगस्यास्त्वया धनम् । प्रत्यर्यतेऽनया तादृग् नान्तरं हि द्वयोरपि ॥ ७४६ ॥ ततो वैलक्ष्यवान् मङ्घ धूर्तः स्वं स्थानमासदत् । कोटिस्वर्ण ददौ हृष्टा धनाय पणनायिका ॥ ७४७ ॥ एवं विवेककल्पद्रुर्वर्धमानधनः क्रमात् । स षट्रपञ्चाशतः स्वर्णकोटीनामभवद्विभुः ॥ ७४८॥ अन्यदा भूभृदादेशात्पुरारक्षररक्ष्यत । कारायां तस्करः कोऽपि नृपः शास्ता हि पाप्मनाम् ॥ ७४९ ॥ क्षुत्तुडादीनि दुःखानि विषहन् स व्यपद्यत ! अकामनिर्जरायोगादजायत च राक्षसः ॥७५०॥ प्रयुक्तावधिरुन्मेषिद्वेषः क्षमापं स्वदुःखदम् । हन्तुमेषोऽग्रहीन्मङ्घ हर्यक्ष इव कुञ्जरम् ॥७५१॥
॥१३५॥