SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ RICS चतुर्थः प्रकाशः। दानप्रदीपे केवलिनं नत्वा यथास्थानं ययुः सुराः । केवल्यपि गुरोः पार्श्व प्राप मुक्तिं क्रमेण च ॥७७ ॥ तथैहिकप्रत्युपकारलि प्सया यतीश्वरेभ्यो नहि देयमुत्तमैः । नैवोपकृत्याऽऽददते यतीश्वरास्तेभ्यः सदाऽभ्यस्तजिनोदितागमाः ॥७८॥ ज्योतिर्निमित्ताक्षरमन्त्रकामणप्रतिक्रियाकौतुकशान्तिकादिकम् । प्रयुञ्जते ये यतयः स्वजीवने ते दुर्गतिं यान्ति विराधितव्रताः॥ ७९ ॥ यदुक्तम् ( उपदेशमालायाम् । ) "जोइसनिमित्त अक्खरकोउआएसभूइकम्मेहिं । करणाणुमोअणाहिअ साहुस्स तवक्खओ होइ ॥११५॥" __ मुधाप्रदातुः परमः फलोदयश्चरित्रशुद्धिश्च मुधोपजीविनः । दाने ततो ग्राहकदायको मुधाप्रवर्तमानौ भजतः शुभां गतिम् ॥ ८॥ यदुक्तं श्रीदशवैकालिके “दुल्लहा उ मुहादाई मुहाजीवी वि दुलहा । मुहादाई मुहाजीवी दो वि गच्छंति सुग्गई ॥" मुधाप्रदाने शृणुतावधानतो निदर्शनं वापि पुरे प्रशान्तधीः। कश्चिजगी भागवतं स्वभावतो दानोद्यतं कश्चन तापसाग्रणीः ॥ ८१॥ यद्यन्वहं वृत्तिधुरां दधासि मे घनागमं तद्गमयामि ते गृहे । सोऽप्याह तप्तिं यदि मे तनोषि नो तदाऽस्तु तेनापि च तत्प्रतिश्रुतम् ॥ ८२॥ दया ततो भागवतो निकेतनं तस्यासनाच्छादनभोजनादिकाम् । चकार वृत्ति सततं समाधिमान् निजं व्यधाद्धर्मविधिं तपस्व्यपि ॥ ८३ ॥ अथैकदा भागवतस्य गेहतश्चौरा हरन्ति स्म वरं तुरङ्गमम् ।। शक्षणाद्विभाता च विभावरी ततस्तमग्रतो लातुमलं न तेऽभवन् ॥ ८४॥ ययुश्च नद्या गहने निबध्य तं तां चापगामाप स तापसः प्रगे । तं हेपमाणं च निशम्य बुद्धवानयं हयस्तस्य ममोपकारिणः ॥ ८५॥ ततः स तूर्ण सवनादिकाः क्रिया SHARE *** * 2*
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy