SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ अष्टमः प्रकाश। दानप्रदीपेअथ कन्ये स्ववप्तारं दृष्ट्वा हृष्टे प्रणम्य च । ऊचतुर्भस्मरूपे नौ महानयमजीजिवत् ॥ ३९१ ॥ तं चाधुनैव मातङ्गं मातङ्गः कोऽप्यघातयत् । श्रुत्वेति मुदितो रत्नपालमालपति स्म सः॥ ३९२ ॥ वैताढ्यदक्षिणश्रेणी रत्नसारपुराधिपः । अहं महा॥१२५॥ बलो नाम खेचरः कन्ययोः पिता ॥ ३९३ ॥ अन्येधुः कन्ययोर्भावी कः प्रेयाननयोरिति । नैमित्तिको मया पृष्टः स्पष्टमाचष्ट मां प्रति ॥ ३९४ ॥ मातङ्गापहृते कन्ये प्रापिते भस्मरूपताम् । अतर्कितमुपागत्य जीवयिष्यति यः सुधीः ॥३९५॥ यस्य सान्निध्यमाधातुं मातङ्गश्च हनिष्यते । केनापि करिणा विद्धि तं कन्याद्वितयीवरम् ॥३९६॥ तदद्य सकलं सत्यं जज्ञे पुण्येन कन्ययोः । ततः प्रसद्य मे सद्यः पुनीहि पुरमुत्तम् ! ॥३९७॥ यथा वितीयते कन्ये प्रमोदं पूरयाम्यहम् । अत्रान्तरे सुरः कोऽपि प्रादर्भूयावदन्नपम् ॥३९८ ॥ स एवाहं नृप!श्राद्धजीवो देवः सुहृत्तव । योऽहं ते मन्त्रिणा सार्ध युद्धे सान्निध्यमांदधे ॥ ३९९ ॥ साम्प्रतं च द्विपीभूय तव कन्याद्वयाप्तये । मिषेण त्वामिहानैषं द्विषं चैतमजीधनम् ॥४०॥ तुम्ब| दिव्यरसैः पूर्णमिदमादत्स्व सादरम् । राजन्नाकर्ण्यता मस्य संबन्धः पुनरद्भुतः॥४०१॥ प्राप्नुमेतत् स मातङ्गश्चतुर्विंशतिवत्सरीम् । कन्दमूलफलाहारस्तपोऽतप्यत दुस्तपम् ॥ ४०२॥ दध्यावधोमुखो मन्त्रं प्रत्यहं प्रहरद्वयम् । जुहाव च महा-| _णि वह्नौ वस्तूनि सोऽनिशम् ॥ ४०३ ॥ एवमाराधिताल्लेभे स नागेन्द्राद, रसम् । महिमा च न मात्यस्य त्रिलोक्या-| मपि तद्यथा ॥४०४ ॥ आयस्यो बिन्दुनाऽप्यस्य संस्पृष्टाः पलकोटयः । जात्यजाम्बूनदीभावमामुवन्ति झगित्यपि ॥४०५॥ | अनेन शान्तिमायान्ति व्याधयो दुर्धरा अपि । कुष्ठान्निर्णाशयत्याशु दुष्टानष्टादशाप्ययम् ॥ ४०६॥ विषादिमूर्छितान् जन्तून सुधेवोज्जीवयत्ययम् । स्पर्शादप्यस्य नश्यन्ति भूताद्या भूरिभीतयः॥४०७॥ तिलकेनैतदीयेन भालस्थल्यामल ॥१२५॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy