________________
१५॥ विना वित्तं गृहस्थो हि
यात्पर्याप्नोति न जातु सः ॥
वदः॥ १४४ ॥ कश्चिदाश्रममायातं श्रीरामं तापसाग्रणीः । जानानोऽप्यभियानादिप्रकारैः सच्चकार न ॥ १४५॥ द्वादशाब्दीमतिक्रम्य लीलयोन्मूल्य रावणम् । लङ्काराज्यमलङ्कारमिव प्राप्य महर्द्धिमान् ॥ १४६ ॥ तमाश्रमं पुनः प्राप्तो रामस्तेन तपस्विना । अभ्यागमफलाद्यर्घपाद्याद्यैः सत्कृतोऽवदत् ॥ १४७ ॥ युग्मम् ॥ स एव त्वं स एवाहं स एव च तवाश्रमः। आदरं शिथिलीकृत्य पुनः किमयमादरः॥ १४८॥ तापसोऽप्याह-धनमर्जय काकुत्स्थ ! धनमूलमिदं जगत्। अन्तरं नैव पश्यामि निर्धनस्य मृतस्य च ॥ १४९ ॥ इहैव न परं वित्तं महत्त्वादिनिबन्धनम् । धर्मकसाधनत्वेन परलोके पुनस्तराम् ॥ १५० ॥ विना वित्तं गृहस्थो हि जीविकाव्याकुलाशयः। न श्रोतुमपि शक्नोति धर्ममेकाग्रमानसः ॥ १५१॥x दूरापास्ता पुनस्तस्य धर्मानुष्ठाननिर्मितिः। यद्वित्तार्जनवैयग्यात्पर्याप्नोति न जातु सः ॥ १५२ ॥ प्रासादप्रतिमाजिनार्चनमहश्रीतीर्थयात्रातपःपूजापुस्तकसङ्घभक्तिकरुणादानोपकारादिकः। धर्मः साधयितुं पुनस्तनुरपि श्रद्धावताऽप्यङ्गिना नो शक्येत धनं विना तदविना भावी हि तस्योद्भवः॥ १५३ ॥ सिद्धा सिद्ध्यङ्गताऽप्यर्थे धर्महेतुत्वसिद्धितः। धनाद्धर्मस्ततः कर्मक्षयस्तस्मात् शिवं यतः॥१५४ ॥ तथाहि। अयोध्यायां युगादीशवंशेऽभूदष्टमो नृपः। दण्डवीर्यः स्फुरद्वीर्यस्त्रिखण्डभरताधिपः॥ १५५ ॥ तं षोडश सहस्राणि नरेशाः पर्युपासत । स सम्यग्विधिना धर्ममुपासामास चानिशम् ॥ १५६ ॥ भोजयित्वा मया भोज्यं यावद्वेदं सधर्मणः। इत्युग्रमेष जग्राह यावज्जीवमभिग्रहम् ॥ १५७ ॥ दानशालासु मे भोज्यं कार्यों धर्मश्च सन्ततम् । इत्युक्त्वा च स्वसौधे तान् परोलक्षानतिष्ठिपत् ॥ १५८ ॥ ज्ञानादिरत्नत्रितयीस्फुटीकारपटीयसा । सूत्रत्रयेण हैमेन हृदयं केऽप्यभूषयन् ॥१५९॥
HISप्यङ्गिना नो|