SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सुलग्नेऽसूत सा सूनुमन्यूनगुणवैभवम् । उत्सवं च नृपश्चक्रे प्रमोदाद्वैतदं नृणाम् ॥ ४३३ ॥ दुर्जया अप्यजीयन्त गर्भस्थे|ऽस्मिन्नरातयः । इत्यस्य वसुधाभा जय इत्यभिधां व्यधात् ॥ ४३४ ॥ वर्धमानः क्रमेणायं वयसा तेजसाऽपि च । न-| वेन्दुरिव शिश्राय निर्मलाः सकलाः कलाः ॥ ४३५ ॥ धनपालस्तथा वेलंधरोऽथ धरणीधरः। जजुः प्रीतिपदं तस्य शैश-| वादपि सेवकाः॥४३६ ॥ यौवनोद्भुतसौभाग्यः सोत्सवं पितुराज्ञया । परिणिन्ये स राजन्यकन्या लावण्यशालिनीः ॥ ४३७ ॥ अन्येधुरथ दुःस्वप्नज्ञातासन्नमृतिर्नृपः। सोत्सवं स्थापयामास जयराजं निजे पदे ॥ ४३८ ॥ स्वयं तूदग्रवैराग्यस्तपस्यामाददे मुदा । यथाऽवसरकृत्ये हि नियोक्ता स्वपरौ सुधीः ॥ ४३९ ॥ व्यराजदथ राजेव जयराजः कलानिधिः । सर्व कुवलयं निन्ये येनोल्लासमुदीयुषा ॥ ४४० ॥ अस्य प्राच्यकृपाधर्मकार्मणेनोपवर्मिताः । परश्शताः परे भूपाः स्वयमाज्ञाममंस तत् ॥ ४४१॥ राज्ये तस्य कुतो वैरिपराभूतिविभावरी । यस्मिन्नविश्रमं धर्मधर्मद्युतिरुदित्वरः M॥४४२ ॥ अन्येयुः संसदं चित्रकृतनेत्रनियन्त्रणाम् । सुधर्मायाः सुधर्माणमप्युवास नृवासवः॥ ४४३ ॥ सभामभासय-12 तस्य स्वर्णाभरणभाभरः । अमानिवान्तः प्रसृतः पुण्योद्योतस्तनोर्बहिः॥ ४४४ ॥ निर्वर्तितमिवावर्त्य कीर्तिवातमराजितम् । शिरसि श्वेतमेतस्य न्यस्यतातपवारणम् ॥ ४४५ ॥ अस्य चामरधारिण्यः पुण्यस्फूर्ति पुरातनीम् । स्वं कङ्कणरणत्कारैर्गायन्ति स्मेव विस्मिताः॥ ४४६ ॥ रत्नकोटीरसंक्रान्त्या धृतं भक्त्येव मूर्द्धनि । नत्वा क्रमाम्बुजं तस्य पुरो भूपा उपाविशन् ॥ ४४७ ॥ मूर्तिमद्भिरिवामात्रैर्नीतिशास्त्रैर्विनिर्मितम् । तस्य पार्श्वमलञ्चके चक्र सचिवचक्रिणाम् ॥ ४४८॥3 मूर्तिगेणेव शृङ्गाररसेन परिकर्मिताः। पर्यवृण्वत तं वारनार्यः सौन्दर्यभाजनम् ॥ ४४९॥ परेऽपि स्थायुकानीकाधिप
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy