________________
5-ॐASEARCASS
दसंभवे । प्रतिपाद्येति तान् श्रेष्ठी परलोकमवाप सः॥ ३५४ ॥ विधाय तेऽपि तस्योछेदेहिकं पैतृकीर्गिरः। स्मरन्तश्चिरमेकत्र सौभ्रात्रेणावतस्थिरे ॥ ३५५ ॥ बभूव भूयसी तेषां क्रमापुत्रादिसन्ततिः । शतशोऽपि हि शाखाः स्युरेकस्मादपि शाखिनः॥ ३५६ ॥ अथ यत्तन्निमित्तेन मत्सरच्छुरिताः कलिम् । कान्ताः प्रचक्रिरे तेषां न स्त्रीषु स हि दुर्लभः॥३५७॥ न्यवर्तन्त ततो नैव वारिता अपि ताः प्रियैः। रोद्धं कूलंकषाः कूलमुद्भुजाः कः प्रगल्भते ॥ ३५८ ॥ ततो विमृश्य ते प्रीतिपूर्व विभिदिरे स्वयम् । यथा प्रस्तावयोगं हि प्रवर्तन्ते विपश्चितः॥ ३५९ ॥ निज निजं निधिं ते च साक्षीकृत्य पर
स्परम् । पित्रादेशमिवान्तःस्थं हर्षादाचकृषुः स्वयम् ॥ ३६० ॥ तत्रादिमस्य कुम्भान्ताला वाजिगवादिजाः। द्वितीयस्य * पुनर्मुत्स्ना तृतीयस्य तु कागदाः॥३६१॥ तुरीयस्य पुनः प्रादुरासन स्वर्णमणिव्रजाः। त्रयस्ताहक्स्वकुम्भान्तदृष्टा खिद्यन्त
हृद्यलम् ॥ ३६२ ॥ सुवर्णादि तु निर्वर्ण्य तुरीयो मुमुदेतमाम् । प्रतिभा सुलभा प्रायः पुंसां बाह्यार्थदृश्वरी ॥ ३६३ ॥ ततोऽवदंस्त्रयोऽप्याद्या अमनाग दुर्मनायिताः । पित्रा तुल्येऽपि पुत्रत्वे चक्रे नः कीदृगन्तरम् ॥३६४॥ अयं निवेशयामास केशादि कलशेषु नः । लघोः पुनः सुवर्णादि स एवास्य हि वल्लभः॥ ३६५ ॥ हहा ! कनिष्ठवात्सल्यपिच्छिलीकृतचेतसा । वयं दम्भवता तेन कथंकारं प्रतारिताः ॥ ३६५ ॥ भ्रान्तैराराध्यतास्माभिरयं गुरुधिया मुधा । रत्नबुद्ध्या यथा काचः स्वर्णभ्रान्त्या च पित्तलम् ॥ ३६७ ॥ न च प्रमाणमस्माकं व्यवस्थाऽस्य स्थवीयसः । मध्यस्थस्यैव यत्पुंसः प्रामाण्यं मन्यते गिराम् ॥ ३६८ ॥ ततो विभज्य गृहीमः स्वस्वांशं कलशाल्लघोः । अस्मत्कलशतोऽप्यंशान्कनीयान् स्वीकरोत्वयम् ॥३६९ ॥ अथ तान् सावडोऽवादीद्यूयं निर्भाग्यपुङ्गवाः। ततो युष्मन्निधानानामभूदीदृशरूपता ॥ ३७० ॥ यावजीवम