________________
| काचस्येव हरिन्मणी । लक्ष्मीरिवालक्षणस्य तस्याभ्यणे व्यभादसौ ॥ ४७२ ॥ निःसीमा कीदृशी हन्त ! विधातुरविवेकिता। य एतेनाधमेनैतामुत्तमां समजीगमत् ॥ ४७३ ॥ यद्वाऽस्य प्राक्तनं प्राग्रं भाग्यं जागर्ति पक्रिमम् । गृहालङ्करणी यस्य रमणीयमजायत ॥ ४७४ ॥ त्रिलक्ष्या अप्ययं स्वामी स्वयं निःस्व इवानिशम् । निर्ममे निन्द्यकर्माणि धनिनां तद्धनस्य, धिक् ॥ ४७५ ॥ न साधूनाप्ययं बन्धून्न गुरून्नापि देवताः । अभिवीक्षांबभूवापि दूरे तेषां तु सत्कृतिः ॥ ४७६ ॥ कुकमकर्मठं धर्मपरामुखमवेक्ष्य तम् । अखिद्यत भृशं धन्या पत्यौ हि स्नेहला सती ॥ ४७७ ॥ साऽन्यदाऽवसरं प्राप्य तमजल्पदनल्पधीः । कुकर्म रङ्गवत्कुर्वन् स्वामिन् ! न त्रपसे किमु ॥ ४७८ ॥ लोभान्धधीर्वहन् भारं न वेत्सि दिवसं निशाम् । गृहे वित्तं प्रभूतं नस्त्वया प्राच्यैश्च सश्चितम् ॥ ४७९ ॥ न भोगे नापि पुण्यादौ व्यययस्यल्पमप्यदः। प्रेष्ठकष्टं च भूयिष्ठं विदधासि मुधा किमु ॥ ४८० ।। मेलं मेलं विमुच्यार्थ तव सर्वेऽपि पूर्वजाः । क्लिश्यन्त एव तृष्णार्ता जग्मुस्तैः किमसाध्यत ॥ ४८१॥ दिनैः कतिपयैरेव त्वमप्येतादृशस्थितिः। प्रयाताऽसि तदध्वानं वित्तं ते जीवितं च धिक ॥४८२॥ मुखे च वीक्ष्यते तेऽद्य श्यामताऽऽकस्मिकी किमु । किञ्च मुञ्चसि निश्वासानत्युष्णानायतान्मुहुः ॥ ४८३ ॥ किमु त्वां वाधते व्याधिर्हानिर्वा क्रयविक्रये । निधानश्रीः प्रनष्टा वाऽपमानः कश्चनाथवा ॥ ४८४ ॥ सोऽप्यवोचत किञ्चिन्मे नेदं| | खेदनिबन्धनम् । किन्तु चीनकमुष्टिं यत्त्वमदाद्यविजन्मने ॥४८५॥ वज्रेणेवाहतस्तेन प्रिये ! जातोऽस्मि सम्प्रति । न
मां मृत्युस्तथा दुःखाकरोत्यर्थव्ययो यथा ॥ ४८६ ॥ धनं बुद्धिर्धनं सिद्धिर्धनं त्राणं धनं गतिः। धन कीर्तिर्धनं स्फूर्तिजीवितं |च धनं नृणाम् ॥ ४८७ ॥ त्वमेवं च व्ययं मुग्धे ! विदधाना मुधा धनम् । अचिरादेव नेताऽसि क्षयं धान्यमिवेलिका