SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ RASHANGANGACASHRA धर्मे न्ययुङ्ग यस्मान्न जात्वसत्यव्रताः सन्तः॥१०७॥ अष्टम्यादी कामयौषधं पौषधं दधत्तत्र । प्रयतो जिनार्चनादौ निनाय ||समयं कियन्तमयम् ॥ १०८॥ अन्येद्युः शून्यगृहे क्रूरतरव्यन्तरस्थितिकराले । भूतेष्ठायां श्रेष्ठी स्थेष्ठमतिः प्रतिमया तस्थौ ॥ १०९॥ अथ तं प्रति मिथ्यादृक् क्रुधातुरो व्यन्तरो बभूवतराम् । न द्रुह्यति किमु दस्युजेगदाहादाय चन्द्राय ॥११॥ स दर्दश तं विशवं निःशूकं दन्दशूकरूपेण । अपराभिश्चाभीक्ष्णं भीषाभिर्भापयामास ॥१११॥ तदपि मनागपि स स्थिरमना न चुक्षोभ शमधृतस्तोभः । कम्पेत किमु सुमेरुः कल्पान्तोद्धान्तवात्याभिः॥ ११२॥ कामं ततः स कुपितः सुरश्चकारास्य वेदनास्तीवाः। एवमुपसर्गयामास यावदुदियाय दिननेता ॥ ११३॥ तदपि तमभिन्नवदनच्छायं कायं तृणं तु मन्वानम् । ध्यानकतानमनसं निरीक्ष्य यक्षः समाचख्यौ ॥ ११४ ॥ धन्यस्त्वमेव मान्यस्त्वमेव पूज्यस्त्वमेव च स्तुत्यः । गृहिणोऽपि तव स्थैर्य यदहार्यममूदृशं धर्मे ॥११५॥ सत्त्वं समस्तसत्त्वातिशायि तव निरुपमस्तथोपशमः । धैर्यमधःकृतमन्दरमहो ! गुणानां तवातिशयः॥११६॥ तत्तुभ्यमस्मि तुष्टो वरं वृणु त्रिदशदर्शनममोघम् । एवं मुहुरुक्तोऽपि प्रतिवक्ति न यावदिभ्यपतिः॥ ११७ ॥ तावजजल्प पुनरपि सुरो निरीहोऽसि यद्यपि महात्मन्! । तदपि मदीयनिदेशात्प्रयाहि मथुरापुरीमधुना ॥११८॥ तत्र गतस्य पुनस्ते द्वाषष्टिद्रव्यकोटयः सपदि। संगस्यन्ते सुकृतादस्मादत्युग्रभावकृतात् ॥११९॥ एवमुदित्वा देवः क्षमयित्वा तं तिरोऽभवत्सद्यः। प्रतिमां च पारयित्वा विमृष्टवान् श्रेष्ठधीः श्रेष्ठी ॥ १२०॥ वित्तेन तेन 5 मम किं विशुद्धजिनधर्मदत्तचित्तस्य । धर्मो ह्यसीमशर्मश्रियां निमित्तं न वित्तं तु ॥ १२१ ॥ अथवा मम कुलपङ्कः कृपणकलङ्कः स पप्रथे तत्र । गत्वा तत्र ततस्तं प्रमा?मुचितं ममेदानीम् ॥ १२२ ॥ किं चाधिगमे वित्तस्य तस्य विश्राणनैः
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy