SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे तृतीयः प्रकाश विभो ! ॥१४५ ॥ निष्पुण्याया ममान्याभिः सार्द्ध स्पर्धा न काचन । किन्तु पतिक्रमायातमपीदं यदि नादधे ॥ १४६॥ तदा मे गणनाऽप्याशु न स्यादित्यहमर्थये । अद्यास्य तस्करस्यार्थे मह्यमप्यनुगृह्यताम् ॥ १४७ ॥ इत्यूचानामभिज्ञाय नृप४ तिस्तत्र तामपि । अन्वमस्त हृतस्वान्तस्तदा त्वज्ञाततद्गुणैः ॥ १४८॥ ततः सा सौधमाकार्य न परं देयमस्ति मे। भणित्वे त्यभयं तस्मै ददौ स्वल्पोपचारकृत् ॥ १४९ ॥ अवादीच्च मया धर्मपुत्रस्त्वं प्रतिपेदिरे । अहं तवाङ्गजस्येव रक्षादक्षाऽस्मि निश्चिनु ॥ १५०॥ अथाप्तजगदैश्वर्यलक्ष्मीरिव स हर्षितः। स्वल्पोपचारमप्यस्या मेने कोटिगुणं ततः॥१५१॥ प्रातः शीलवती धर्मनन्दनं हसदाननम् । उत्फुल्ललोचनं फुल्लगल्लमुल्लसदंसकम् ॥१५२॥ आक्षिपन्तमशेषायाः क्षणाच्चभृषि पर्षदः। तमार्यमतिराकार्य राजसंसदमाययौ ॥ १५३ ॥ युग्मम् ॥ सभालोके तदालोककौतुकोत्तानलोचने । याचिष्यति किमेषाऽद्य पुनरित्युन्मिषेय॑या ॥ १५४ ॥ तस्थुषीषून्मुखीष्वन्यसुमुखीष्वखिलास्वपि । मापतिर्वीक्ष्य तादृक्षं हर्षितस्तमभाषत ॥ १५५ ॥ युग्मम् ॥ सम्मानितोऽप्यलं ताभिर्हतसर्व इवाभवः । अनया पुनरत्यल्पं प्राप्तराज्य इवेश्यसे ॥ १५६ ॥ किमत्र कारणं ब्रूहि विस्मयो हृदये हि नः । सोऽप्युवाच नृपं शीलवतीधीरितमानसः॥ १५७ ॥ त्वदुक्तैः शूलिकारोपवणेकर्णैककण्टकैः। वाचिकैरन्तकस्येवाभवमुद्भान्तमानसः॥ १५८ ॥ ततो गोभक्तवद्भक्तमम्बु निम्बरसोपमम् । खरवत्तुरगं मेने क्रीडावेश्म श्मशानवत् ॥ १५९ ॥ माला व्यालावली यक्षकर्दमः पूतिकर्दमः । शल्यं मेऽजनि पल्यङ्कः सूर्पमातपवारणम् ॥ १६० ॥ स्वर्णाभरणसंभारः शृङ्खलाभारवत् प्रभो ! । परिधापनिका श्राद्धदेवस्येवांशुकावली ॥ १६१ ॥ गीत रुदितवज्जज्ञे वाद्यं वनप्रहारवत् । शाकिन्य इव कामिन्यः पत्तयो यमदूतवत् ॥ १६२॥ बहुना किं समासन्नमृत्युशङ्का ५० ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy