SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ स गीर्वाणगुरुरूवामिवागतः ।। ३९ ॥ पतिशत तथा दण्डायुधान्ययमशिश्रमत् । यथा पनिणमप्याजी न तृणायाप्यमन्यत ॥ ४० ॥ यस्मिन् मन्दायते मन्ये शतमन्युसुतोऽपि सः । तं विवेद धनुर्वेदमनिर्वेदमना अयम् ॥ ४१ ।। असौ तिर्यग्मनुष्याणां भाषासु विषमास्वपि । कलयामास गीर्वाण इव सर्वासु कौशलम् ॥ ४२ ॥ अविश्रान्तं तथा वाणकलामभ्यस्वति स स । अविन्दत यया शब्दपेविचपि धुरीणताम् ॥ ३॥ कामाय हुतशिलाश पादीगयाशिभियत् । स्वजिष्णुमिव यं दृष्ट्वा त्वष्टा नंष्ट्रा दिवं ययौ ॥४४ ॥ निमित्तशास्त्रमष्टाङ्गं सोऽध्यगीष्ट विशिष्टधीः । भावानवागमत् सम्यग् येन कालत्रयोद्भवान् ॥ ४५॥न सा विश्व कला काऽपि कलयामास यां न सः। रत्नजातिनं सा काऽपि या न रोहति रोहणे ॥ ४६॥ अयमन्येधुरुधानं समेतः सवयोवृतः। पान्थं कमपि तत्रस्थमप्राक्षीदक्षतोचितम् ॥ ४७ ।। कुतः प्राप्तोऽसि भोः पान्थ ! कुत्र वा गन्तुमुद्यतः । अपूर्वामभृतां वार्तामतिथीकुरु कर्णयोः ॥४८॥ पान्थोऽप्युवाच पृथ्वीश ! चम्पापुरनिवासिनः । श्रेष्ठिनो धनदेवस्य तनयः सुधनाभिधः ॥ ४९ शत्रुञ्जयमहातीर्थ वन्दितुं प्रस्थितोऽस्म्यहम् । पवित्रीक्रि-18 | यते यस्य यात्रया जन्म जन्मिभिः ॥ ५० ॥ प्रशास्ति सांप्रतं चम्पां राजा मदनसुन्दरः । पप्रथेऽन्वर्थनामैव सौन्दर्याति शयेन यः॥५१॥ प्रियङ्गमञ्जरी तस्य सुन्दरी शीलसुन्दरी । तयोरगण्यलावण्या कन्या मदनमञ्जरी ॥५२॥ सा प्राप्ता | यौवनं नव्यं दोषजीवनमप्यहो ! । दिने दिनेऽधिकं भेजे सर्वाङ्गीणं गुणोदयम् ॥ ५३ ॥ वर्णनाधिकलावण्याद्यसामान्य-18 गुणश्रियम् । वर्णयन्तः सकास्तां के के नालीकभाषिणः ।। ५४ ॥ कौशलेन कलानां सा भारतीवावतेरुषी । सौभाग्यन पुनर्लक्ष्मीः प्रत्यक्षेव बभूवुषी ॥ ५५ ॥ धवैदुर्विधदुर्बुद्धिदुःशीलाद्यैः सुदुःखिताः । विलोक्य युवतीरन्याः सा विज्ञापन-11 CACACANCACAMANACA494
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy