SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥१६७॥ दशम: प्रकाशः। विमृश्येति मनस्वी तद्वक्षोपान्तमवाप सः॥ ४११॥ त्रिः परीय तरुं भक्त्या पुष्पाद्यैः पर्यपूपुजत् । सुगन्धिना च धूपेन धूपयामासिवानयम् ॥४१२॥ एवं कृतसपर्याको यक्षं दक्षं सुखाकृती। वरं स प्रार्थयामास न्यास नैयासिको यथा॥४१॥ यक्षोऽप्याख्यत्तमध्यक्षः कं वरं वितरामि ते । सोऽप्युवाच पुरं सर्ववस्तुयुक्त विधेहि मे ॥ ४१४ ॥ अथायं तत्क्षणादेव देवस्तत्र पुरं नवम् । नाकस्य प्रतिकायं तु चकार स्वकशक्तितः॥ ४१५ ॥ तन्मध्ये वसुधेशार्हः सौधः शुद्धमणीमयः। रेजे ध्वजभुजङ्गस्य पुण्यपुञ्ज इवोज्वलः ॥ ४१६ ॥ सेनानीश्रेष्ठिसामन्तमन्त्र्याद्यां महागृहाः । अभितस्तमशोभन्त राज| हंसा इवाम्बुजम् ॥ ४१७ ॥ परः सहस्रा आवासाः स्वयंभुव इवोत्थिताः । सामान्यजनतायोग्याः सर्वतस्तान् विरेजिरे ॥४१८ ॥ विशालस्तत्पुरं सालः परीयाय समन्ततः । शेषः क्षमायाः समुद्धारादुद्विग्न इव निर्गतः॥४१९ ॥ व्यराजत जलापूर्णा परिखा परितः पुरम् । स्नेहेनेवाम्बुधिर्लक्ष्मीं संभाषयितुमागतः ॥ ४२० ॥ तत्र वापीतटाकादिनिपानानि पदे पदे । बभुव॑जभुजङ्गस्य कीर्तिवल्लीमिवोक्षितुम् ॥ ४२१॥ नानास्थानाहृताः स्वर्णरत्नतारादिधोरणीः । यक्षस्तत्र ववर्षा-2 म्बुधारा धाराधरो यथा ॥ ४२२ ॥ जनानानायमानायमन्यस्थाननिवासिनः । वासयामास तत्रासौ सुराजेव सहस्रशः ॥ ४२३ ॥ वनादिस्थायिनोऽश्वादीनानीयानीकनेतृवत् । चतुरङ्गबलं तत्र सोऽविलम्बममीमिलत् ॥ ४२४ ॥ एवं सर्वाङ्गचङ्गस्य तस्य द्रङ्गस्य रङ्गतः। जने सुरपुरेत्याख्यां यक्षः ख्यापयति स्म सः॥ ४२५ ॥ अथ च्छत्रेण पर्वेन्दुगर्वसर्वकष|श्रिया । मूर्ड्सि मूर्तिमता कीर्तिस्तोमेनेव विराजितः॥४२६ ॥ सर्वाङ्गस्फारशृङ्गारभासुरीकृतदिग्मुखः । स्वर्णविष्टरमारूढः पूर्वाचलमिवांशुमान् ॥ ४२७ ॥ प्रभापूरद्वयेनेव कुण्डलद्वितयोद्भुवा । चारुचामरयुग्मेन वीज्यमानांसमण्डलः ॥ ४२८॥ RECOGNICALOCALSARSONAGACA ॥१६७॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy