SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 4564560 विदूषकान् ॥ ३६४ ॥ एता भाषयत क्षिप्रं भाषितैः कृतकौतुकैः। ततस्तेऽभिदधुर्बद्धस्पर्धं वैनोदिकीः कथाः॥३६५॥ तरुणीजनमुत्कर्ण कुर्वाणाः श्रवणादपि । उत्तरङ्गितङ्गाराः कथाः केचिदचीकथन् ॥ ३६६ ॥ स्फारहास्यवशोत्फुल्लगल्लीभूतसभासदः । केचन स्फोरयांचक्रुर्वक्रोक्तीश्चित्रकारिणीः॥३६७ ॥ तथाऽपि चक्षुरुन्मेषमपि तेषु न संमुखम् । चकार काऽप्यहो ! तासु दूरमास्तां तु भाषणम् ॥ ३६८ ॥ अधरां कन्धरां किन्तु ताविधायावतस्थिरे । दृष्ट्वा च तास्तथाऽवस्था व्यस्मयन्त नृपादयः ॥ ३६९ ॥ घोषयामास भूपोऽथ पटहं कौतुकात्पुरे । य एता निजवैदुष्या भाषयिष्यति योषितः ॥ ३७० ॥ स्वकन्यां कुसुमवतीं तस्मै दास्यामि धीमते । अपिस्पृक्षन्न के तं च कुमारास्तामभीप्सवः॥ ३७१॥ परं कलावतस्तत्र विलोक्य विफलोद्यमान । कोऽप्यस्य संनिधौ राधावेधस्येव न जग्मिवान् ॥ ३७२ ॥ अथात्मानं निजाः कान्ता निवेदयितुमुन्मनाः । कुमारः प्रतिभास्फारः कुनाकारस्तमस्पृशत् ॥ ३७३ ॥ तत्रायुक्तैस्ततो नीतः संसदं विस्मिताशयैः । कुजः प्रणेमिवान् भूपं हस्तविन्यस्तपुस्तकः॥ ३७४ ॥ संमान्यासनदानाद्यै स्तमवोचत भूपतिः। पुस्तिका तव का पाणी किं |किं वेत्सि च कुनक! ॥३७५॥ कुनो जगाद भूमीन्द्र ! सुरेन्द्रेण प्रसेदुषा । इयं मे पुस्तिकाऽदायि सर्व जानामि चानया |॥ ३७६ ॥ ततः करे गृहीत्वा तां छोटयित्वा च कौतुकात् । यावद्वाचयति मापस्तावदाख्यत कुनकः ॥ ३७७ ॥ महा राज! द्विजातो यः स एतामद्भुताक्षराम् । शक्तो वाचयितुं यस्माद्वरः सुरपतेरयम् ॥ ३७८ ॥ ततस्तत्राक्षरावीक्ष्य वीक्षापन्नमना नृपः। द्वैजात्यव्यत्ययं स्वस्य मन्यते स्म स्वमानसे ॥३७९॥ लोके च लाघवं मा भूदेवं मनसिकृत्य सः। पुरोहितमुपान्तस्थमवोचत सविस्मयम् ॥ ३८॥ अमुष्या दक्ष ! कीदृक्षा लक्ष्यतामक्षरावली । व्यलोकत च वेगात्तां पुरोभूय
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy