SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥८६॥ षष्ठः प्रकाशः। ॥ ३३ ॥ ततः सा कमला देवी गर्भ बभ्रे शुभाशया । द्यौरिवादभ्रशुभ्राभ्रतिरोहितमहः पतिम् ॥ ३४ ॥ अमन्दमदसौगन्ध्यलुब्धभ्रमरधोरणिम् । तस्यामेव तमस्विन्यां द्विपं स्वप्ने ददर्श सा ॥ ३५॥ प्रतिभूरङ्गभूत्यत्त्यै श्रोत्रयोरतिथी- भवन् । नृपमप्रीणयत् स्वप्नः पल्या प्रातः प्ररूपितः ॥ ३६॥ समये जनयामास तनयं दीप्रदीप्तिभिः । प्रकाशितनिशान्तं | सा रत्नं रोहणभूरिव ॥ ३७॥ सुखाकृतपुरीलोकांस्तोषिताशेषयाचकान् । यथाक्रमं महीशक्रश्चके सूनुजनुर्महान् ॥ ३८॥ तस्याभिधां व्यधाद्भूपः पूज्यपूजनपूर्वकम् । करिस्वप्नानुसारेण करिराज इति स्फुटाम् ॥ ३९ ॥ अनेन वर्द्धमानेन साई स्पर्धा कथं विधोः। कला द्वासप्ततिं भेजे यदयं स तु षोडश ॥ ४०॥ नृपतिः सोत्सवं स्वच्छलावण्यार्णस्तरङ्गिणी। रमणीः रमणीयाङ्गीः सूनुना पर्यणीणयत् ॥४१॥ अन्यदा वन्यदावाग्निमिव तापं भवोद्भवम् । शमयन्तं नवाम्भोदमिव | साम्यरसाचितम् ॥ ४२ ॥ पुण्योपदेशमासाद्य गुरूणां हस्तिभूपतिः । वैराग्यरसपूरेण पूरयामास मानसम् ॥४३॥ ततो वैषयिके सौख्ये विषप्रख्ये पराङ्मुखः । राजा न्ययुक्त साम्राज्ये करिराजं महामहैः ॥ ४४ ॥ अथ प्रौढोत्सवैः शस्यां तपस्यां शिश्रिये नृपः । स्वहितेन हि मुह्यन्ति कदाऽपि विशदाशयाः ॥ ४५ ॥ निषेव्य बहुवर्षाणि स राजर्षिः सुदुश्चरम् ।। चरणं निरतीचारं जगाम गतिमुत्तमाम् ॥ ४६ ॥ अथ स्वाराज्यवद्राज्यं भुञ्जानः प्राज्यमूर्जितम् । करिराजमहीराजो रेजे तेजस्विनां वरः॥ ४७ ॥ तत्रान्यदा रथकारदारकः कोऽप्यपारधीः । आजगाम कलाधाम सुमति म दूरतः॥४८॥ अनल्पं शिल्पकौशल्यमतुल्यं विस्मयावहम् । शिक्षयामास यं साक्षात्त्वष्टा तुष्टाशयः किल ॥ ४९ ॥ तस्मै कन्यामविज्ञातज्ञातयेऽपि कलावते । ददौ वास्तव्यरथकृत्कलायाः किल गौरवम् ॥ ५० ॥ स तत्र कृतसंवासो रममाणस्तया समम् । ARISSAARASAIRASIA ॥८६॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy