________________
| समयं गमयामास कियन्तमपि लीलया ॥ ५१ ॥ तस्य श्वशुरवगणाः स्पन्दनादिविधित्सया । आनेतुं सारदारूणि व्रजन्ति वनमन्वहम् ॥ ५२ ॥ प्रययौ सह तैः सोऽपि जग्राह न तु किञ्चिन । यत्र तत्र प्रवीणानां मतिर्न रमते यतः ॥ ५३ ॥ शावभावुक ! काष्ठानि प्रष्ठान्यपि न लासि किम् । इत्युक्तः श्यालकैः साह योग्यं पश्यामि नात्र भोः ! ॥ ५४ ॥ ततः श्याला मिथो दत्तहस्तताला हसन्ति तम् । अहो ! काष्ठान्ययं मूर्खश्चक्षुष्मानपि नेक्षते ॥ ५५ ॥ अहो ! चारूणि दारूणि मोचं मोचं व्रजत्ययम् । अपूर्वा भगिनीभर्तुरहो ! काऽपि विवेकिता ॥ ५६ ॥ यद्वा ग्रहिल एवायमास्माकीनोऽस्ति भावुकः । लभ्यते खलु भाग्येन भगिनीपतिरीदृशः ॥ ५७ ॥ इति श्यालकक्लृप्तानि हसितानि विहस्य सः । चक्रेऽपकर्णितान्येव धीरगाधा हि धीमताम् ॥ ५८ ॥ अरण्यादन्यदा गच्छन् श्यालकादिसमन्वितः । चितायामर्द्धनिर्दग्धं सारं दारु ददर्श सः ॥ ५९ ॥ श्यालैहस्यविशाला स्यैर्हस्यमानोऽप्यनेकशः । जनं तत्र स याचित्वा जगृहेऽत्याग्रहेण तत् ॥ ६० ॥ अथागत्य गृहं तेन निरपीपददद्भुताम् । स दव द्रविणव्यूहं परिवेष्टुमिवात्मनः ॥ ६१ ॥ अनया दीयमानं हि वस्तु न क्षीयते प्रिये ! । तदियं द्रव्यलक्षेण विक्रेया नान्यथा पुनः ॥ ६२ ॥ एवं वितीर्णशिक्षाया दक्षाया निजयोषितः । प्रियस्तामर्पया - मास विक्रयार्थं चतुष्पथे ॥ ६३ ॥ अथ प्रातः स्मरन्ती सा पत्युः शिक्षां विचक्षणा । ऊर्द्धाकृत्य करे दव गत्वा तस्थौ चतुष्पथे ॥ ६४ ॥ दीयते कथमेषेति पृष्टा सा ग्राहकान् जगौ । इमां स एव गृह्णाति यो दत्ते लक्षमक्षतम् ॥ ६५ ॥ ततस्ते ग्राहकाः प्राहुः सहासमविचारिणः । यदि लाक्षीजिघृक्षा ते पिष्पलेषु तदा ब्रज ॥ ६६ ॥ अप्राक्षुः केऽपि दक्षास्तां भद्रे ! मूल्यमिदं कुतः । ततः सा प्राह माहात्म्यमस्याः सम्यग् निशम्यताम् ॥ ६७ ॥ अनया दीयमानं हि हीयते वस्तु जातु