________________
दा० २७
दुरोदरम् ॥ ५४ ॥ युग्मम् ॥ ही नीचसङ्गतिः सर्वदोषजीवातुरौषधिः । एतया कितवश्चक्रे यदयं गुणवानपि ॥ ५५ ॥ महीयसोऽपि माहात्म्यं हीयते हीन सङ्गतेः । स्यादपेयं न किं वारि वारुणीभाजनस्थितम् ॥ ५६ ॥ दीव्यमानः समं द्यूतकारिभिश्छल चारिभिः । सारं स हारयामास वारंवारमसारधीः ॥ ५७ ॥ पुत्रस्योपेक्षिता तातस्तत्पापेनोपलिप्यते । इति ध्यात्वाऽन्यदा वप्ता तमशिक्षत दक्षधीः ॥ ५८ ॥ वत्स ! स्वच्छमते ! द्यूतं तव सर्वगुणात्मनः । न युज्यते गजस्येव लुठनं पांसुलावन ॥ ५९ ॥ कैतवं जातसङ्केतनिकेतः सकलापदाम् । निःशेषाणां च दोषाणां विख्याता खानिरक्षया ॥ ६० ॥ प्रचण्डतमदोर्दण्डताण्डवास्तेऽपि पाण्डवाः । दुरोदरानुरागेण कं कं नापुः पराभवम् ॥ ६१ ॥ भुञ्जानः प्राज्यमैश्वर्य स धीरललितो नलः । द्यूतेन श्रूयते नीतो दशां श्रवणदुःश्रवाम् ॥ ६२ ॥ तन्मुञ्च कैतवं सर्वकैतवैकनिकेतनम् । महत्त्वमश्रुषे येन वर्धमानं दिने दिने ॥ ६३ ॥ हितशिक्षामिति द्राक्षासदृक्षामपि बीजिना । प्रसह्य ग्राह्यते स्मायं वाजी घृतगुडं यथा ॥ ६४ ॥ कियन्तं समयं चायं जनकस्योपरोधतः । तस्थौ व्यवस्थया सेतुबद्ध सिन्धुप्रवाहवत् ॥ ६५ ॥ प्रावर्तत पुनर्द्यते पूर्वाभ्यासवशादसौ । पानीयं नीयमानं हि न स्यादूर्द्ध चिरं स्थिरम् ॥ ६६ ॥ पित्रा द्विस्त्रिनिषिद्धोऽपि पूर्ववद्धितमिच्छता । स द्यूतं न जहाति स्म व्यसनं हि सुदुस्त्यजम् ॥ ६७ ॥ विपाको नान्यथा कर्त्तुं शक्यते पूर्वकर्मजः । इति निश्चित्य वप्ता तं प्रत्युदास्त प्रशस्तधीः ॥ ६८ ॥ तादृशं व्यसनं सूनोर्निरीक्षितुमिवाक्षमः । सिंहपालो यथाकालं परलोकमुपेयिवान् ॥ ६९ ॥ स कृत्वा पैतृकं कृत्यमातस्थे तदवस्थताम् । यत्राविष्टं मनो यस्य स तत्रैव हि रज्यति ॥ ७० ॥ निर्भरं बिभरामास व्यसनं स पणे तथा । यथा भुक्तवतस्तस्योद्धानः पाणिः पणालये ॥ ७१ ॥ द्यूतेन महिमा तस्य नश्यति।