SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Bilपणापूतौ पुनहींणाः सर्वे यास्यन्ति ते स्वयम् । तत्प्रत्याहृतयेऽस्माभिर्यथाशक्ति यतिष्यते ॥१०९॥ एवमस्त्विति सानन्द नृपेणोक्तः स धीसखः। सर्वानास्त भूपालानभ्यधाच्च धियां निधिः॥११॥शब्दवेधं धनुर्वेदं भाषा: शिल्पकलाः समाः। यो वेत्ति स्पष्टमष्टाङ्गनिमित्तं च स मे पतिः॥ १११ ॥ अयं हि राजकन्यायाः पाणिग्रहविधौ पणः। वीरमानी पणं यश्च दुष्पूरं पूरयत्यमुम् ॥११२॥ पटहं स्फुटमेवायं नृपः स्पृशतु सत्वरम् । निमित्तविद्यया सम्यगवगच्छतु तां हुताम् ॥११३॥ द करोतु कलया काष्ठगरुडान् व्योमगामिनः । तत्प्रयोगेण निर्विघ्नं कन्यास्थानमुपैतु च ॥११४ ॥ धनुर्विद्यादिसान्निध्या-19 तत्र कन्यापहारिणः । वैरिणो युधि निर्जित्य तां प्रत्यानयतु दुतम् ॥ ११५॥ तस्याः प्रत्याहतौ चास्य विधास्यामः सहायताम् । प्रत्याहृतां च तां पाणौ कुर्यानिर्विघ्नमेव सः॥ ११६ ॥ इहस्थामपि तां पाणी कुरुते पणपूरकः। प्रपूर्यैव पणं द्रष्टुम-| |पीष्टे सांप्रतं पुनः॥ ११७ ॥ इति साक्षेपमुक्तास्ते धीसखेन क्षितीश्वराः । निखिला न्यग्मुखीभूय विलक्षा जोषमासत ॥११८॥ मेघनादस्तु सानन्दं द्रुतमुत्थाय पाणिना । पस्पर्श पटहं विद्या न तिष्ठति यतो रहः ॥ ११९ ॥ अभाषत च युष्माकं समेषामपि पश्यताम् । सर्वमेतदहं कुर्वे श्रीलक्ष्मीपतिभूपभूः ॥ २२०॥ तदाकर्ण्य सभासीनाः सर्वेऽप्युत्तानलोचनाः। तस्याभिमुखमैक्षन्त याचका इव दानिनः॥१२१॥ नृपोऽप्याकृतिसत्त्वोक्तिविस्मितस्तमवोचत । ध्रुवं जागर्ति |भाग्यं नस्तवात्राभूद्यदागमः ॥ १२२ ॥ विश्वातिशायिनी शक्तिमियमाकृतिरेव ते । निवेदयत्यसंदेहं सर्वाङ्गीणसुलक्षणा ॥ १२३ ॥ भूभृतामियतामन्तः समेतस्त्वं प्रमादतः । नापालक्ष्यथाश्चिन्तामणिवन्मणिमण्डले ॥ १२४ ॥ परमा प्रीतिरस्माकं लक्ष्मीपतिमहीभृता । युक्तं तदुद्धरस्थस्मानस्माहुःखात्तदङ्गभूः॥१२५ ॥ पूर्वमस्मानसीमेन तप्तान् शोकदवाग्निना।
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy